This page has not been fully proofread.

द्वारकावासवर्णनम् ।
 
तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतां
मगधपतिना मार्गे सैन्यैः पुरेव निवारितः ।
चरमविजयं दपीयास्मै प्रदाय पलायितो
 
जलधिनगरीं यातो वातालयेश्वर ! पाहि माम् ॥ १२ ॥
 
२६७
 
दशकम् - ७८]
 
तदन्विति । द्वारकां व्रजन् मार्गे मगधपतिना जरासन्धेन पुरा यथा,
तथा निवारितः चरमविजयम् अष्टादशसङ्ग्रामजयं दर्पाय अहङ्कारमुत्पादयितुं
प्रदाय पलायितो धावन् प्रवर्षणाख्यं गिरिमारुह्य तस्मादुत्पत्य भुवि पतित्वा जरा-
सन्धेनालक्षितो जलधिनगरीं द्वारकां यातः ॥ १२ ॥
 
इति सैरन्ध्रयामुपश्लोकोत्पत्तिवर्णनं जरासन्धादियुद्धवर्णनं
मुचुकुन्दानुग्रहवर्णनं च
 
सप्तसप्ततितमं दशकं सद्विकम् ।
 
त्रिदिववर्धकिवर्धितकौशलं त्रिदशदत्तसमस्त विभूतिमत् ।
जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥ १ ॥
 
त्रिदिवेति । त्रिदिववर्धकिना विश्वकर्मणा वर्धितानि सर्वप्रयत्नेन कृतानि
कौशलानि यत्र । त्रिदशैर्लोकपालैः दत्ताः प्रत्यर्पिताः समस्ता विभूतयः सुधर्मापा-
रिजाताद्याः सन्त्यस्मिन्निति तथा । नवपुरं द्वारकां वपुरञ्चितेन रोचिषा देहकान्त्या
त्वमभूषयः ॥ १ ॥
 
ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् ।
महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥ २ ॥
 
ददुषीति । रेवतो नाम राजा रेवत्याख्यामात्मतनयामादाय सत्यलोकं
गत्वा ब्रह्माणं पृष्टवान् 'एनां कस्मै प्रदास्यामी'ति । 'त्वत्समानकालिका राजानः
सम्प्रत्यदर्शनं गताः । किन्तु त्वयि भूमिगते सति रामकृष्णाववतीर्णौ भविष्यतः ।
तयो रामायैनां देही'ति विधेः शासनात् । समुदितैः सहितैः ॥ २ ॥
 
१. 'दशवर्ध' क. ग. पाठ: २. 'दशवर्ध' क. ग. पाठ:.