This page has been fully proofread once and needs a second look.

द्वारकावासवर्णनम् ।
 
तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतां

मगधपतिना मार्गे सैन्यैः पुरेव निवारितः ।

चरमविजयं दपीर्पायास्मै प्रदाय पलायितो
 

जलधिनगरीं यातो वातालयेश्वर ! पाहि माम् ॥ १२ ॥
 
२६७
 
दशकम् - ७८]
 

 
तदन्विति । द्वारकां व्रजन् मार्गे मगधपतिना जरासन्धेन पुरा यथा,

तथा निवारितः चरमविजयम् अष्टादशसङ्ग्रामजयं दर्पाय अहङ्कारमुत्पादयितुं

प्रदाय पलायितो धावन् प्रवर्षणाख्यं गिरिमारुह्य तस्मादुत्पत्य भुवि पतित्वा जरा-

सन्धेनालक्षितो जलधिनगरीं द्वारकां यातः ॥ १२ ॥
 

 
इति सैरन्ध्र्यामुपश्लोकोत्पत्तिवर्णनं जरासन्धादियुद्धवर्णनं

मुचुकुन्दानुग्रहवर्णनं च
 

 
सप्तसप्ततितमं दशकं सद्विकम् ।
 

 
त्रिदि[^१]ववर्धकिवर्धितकौशलं त्रिदशदत्तसमस्त विभूतिमत् ।

जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥ १ ॥
 

 
त्रिदिवेति । त्रिदि[^२]ववर्धकिना विश्वकर्मणा वर्धितानि सर्वप्रयत्नेन कृतानि

कौशलानि यत्र । त्रिदशैर्लोकपालैः दत्ताः प्रत्यर्पिताः समस्ता विभूतयः सुधर्मापा-

रिजाताद्याः सन्त्यस्मिन्निति तथा । नवपुरं द्वारकां वपुरञ्चितेन रोचिषा देहकान्त्या

त्वमभूषयः ॥ १ ॥
 

 
ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् ।

महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥ २ ॥
 

 
ददुषीति । रेवतो नाम राजा रेवत्याख्यामात्मतनयामादाय सत्यलोकं

गत्वा ब्रह्माणं पृष्टवान् 'एनां कस्मै प्रदास्यामी'ति । 'त्वत्समानकालिका राजानः

सम्प्रत्यदर्शनं गताः । किन्तु त्वयि भूमिगते सति रामकृष्णाववतीर्णौ भविष्यतः ।

तयो रामायैनां देही'ति विधेः शासनात् । समुदितैः सहितैः ॥ २ ॥
 

 
[^
]. 'दशवर्ध' क. ग. पाठ: ठः
[^
]. 'दशवर्ध' क. ग. पाठ:.
 
ठः