This page has been fully proofread once and needs a second look.

२६६
 
नारायणीये
 
त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये
 

तत्राथ योगलतः स्वजनाननैषीः ॥ ९ ॥
 
[स्कन्धः - १०
 

 
अष्टादश इति । अस्याष्टादशे समरे समुपेयुपि [^*]आगामिनि सति त्वं यवनानां

म्लेच्छानां त्रिकोट्या युतं यवनं पुरतो दृष्ट्वा त्वष्ट्रा विश्वकर्मणा पयोधिमध्ये आशु

द्वारवत्याख्यं पुरं विधाप्य कारयित्वा योगबलतः योगैश्वर्येण तत्र स्वजनान-

नैषीः ॥ ९ ॥
 

 
पद्भ्यां त्वं पद्ममाली चकित इव पुरान्निर्गतो धावमानो

म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः ।

सुप्तेनाङ्घचाघ्र्याहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन्

भूपायास्मै गुहान्ते सुललितवपुषा तस्थिपेषे भक्तिभाजे ॥१०॥
 

 
पद्भ्यामिति । त्वया वधः सुकृतैकलभ्यः तद्विहीनेन । शैले तद्गुहायां

देवदत्तया निद्रया चिरं सुप्तेन यवनेन कृष्णोऽयमिति भ्रान्त्या अङ्मचाघ्र्यहतेन

मुचुकुन्देनास्मिन् यवने भस्मीकृते तस्मै मुचुकुन्दाय तस्थिषे आत्मानं प्रकाश्य

स्थितवाने॑न[^१]सि ॥ १० ॥
 

 
ऐक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षी

हा देवेति स्तुवन्तं वरविततिषु तं निस्पृहं वीक्ष्य हृष्यन् ।

मुक्तेस्तुल्यां च भक्तितिं धुतसकलमलं मोक्षमप्याशु दत्त्वा
 

कार्यं हिंसाविशुद्ध्यै तप इति च तदा प्रात्थ लोकप्रतीत्यै ॥ ११॥

 
ऐक्ष्वाक इति । ऐक्ष्वाकः इक्ष्वाकुवंशजः अखिलनृपसुखे राज्यभोगे विर-

क्तः । आशु समनन्तरब्राह्मणजन्मान्ते धुतसकलमलम् अज्ञानकल्पितसंसारनिवृत्ति-

रूपं मोक्षं तावत्कालपर्यन्तं मुक्तेस्तुल्यां निरतिशय सुखरूपां प्रेमलक्षणां भक्तिमपि

दत्त्वा क्षात्रधर्मेण कृताया हिंसाया विशुद्ध्यै तपः कार्यमिति च तदा प्रात्थ अब्रवीः ।

यद्यपि त्वद्दर्शन।नादेव कृतकृत्यो मुचुकुन्दः, तथापि लोकप्रतीत्यै, क्षत्रधर्मं लोकान्

ग्राहयितुमिदमात्थेत्यर्थः ।॥ ११ ॥
 

 
[^
]. 'नून् ॥ ' ख. पाठः.
 

[^
*] आर्थिकार्थकथनमिदम् ।