This page has not been fully proofread.

जरासन्धादियुद्धवर्णनम् ।
विघाताज्जामातुः परमसुहृदो भोजनृपते-
र्जरासन्धे रुन्थत्यनवधिरुपान्धेऽथ मथुराम् ।
स्थाद्यैर्थोलब्धैः कतिपयवलस्त्वं वलयुत-
स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहथाः ॥ ६ ॥
 
दशकम् – ७७]
 
विघातादिति । जरासन्धस्य जामाता कंसः, तत्पुत्र्योरस्तिप्रास्त्योः पति-
त्यात्, तस्य भोजनृपतेर्बधाद् अनवधिरुपाश्चे जरासन्धे मथुरां रुन्धति सतिद्योः
स्वर्गाल्लब्धैर्मातलिनानीतै रथाद्यैः सपरिकरैः कतिपयबलः परिमितसेनासहितः
तदुपनीतं जरासन्धाहृतं त्रयोविंशत्यक्षौहिणि बलं समहृथाः सञ्जहर्थ ।॥ ६ ॥
 
बद्धं वलादथ वलेन वलोत्तरं त्वं
भूयो बलोद्यमरसेन मुमोचिथैनम् ।
निश्शेपदिग्जयसमाहृतविश्वसैन्यात्
 
कोऽन्यस्ततो हि वलपौरुपवांस्तदानीम् ॥ ७॥
 
२६५
 
बद्धमिति । अथ बलेन बलाइ बद्धं बलेन उत्तरम् उत्कृष्टं भूयो
बलोद्यमरसेन जरासन्धः पराजितो भूयोऽपि भूरिबलमुपनेष्यतीति कौतुकेन एनं
जरासन्धं मुमोचिथ । कीदृशो जरासन्ध इत्यपेक्षायामाह – निश्शेषदिग्जये
समाहृतानि विश्वेषां सर्वनृपाणां सैन्यानि येन तस्माज्जरासन्धादन्यः कः ॥ ७ ॥
 
भग्नः स लग्नहृदयोऽपि नृपैः प्रणुन्नो
 
युद्धं त्वया व्यधित षोडशकृत्व एवम् ।
अक्षौहिणी: शिव शिवास्य जघन्थ विष्णो!
 
सम्भूय सैकनवतित्रिशतं तदानीम् ॥ ८ ॥
 
भग्न इति । से जरासन्धस्त्वत्सकाशात् सप्तदशकृत्वः पराजितः ॥ ८ ॥
 
अष्टादशेऽस्य समरे समुपेयुपि त्वं
 
दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या ।
 
१. 'विघाताद्वधा' क. ग. पाठः, २. इदं क. ग. पुस्तकयोर्न दृश्यते,