This page has been fully proofread once and needs a second look.

जरासन्धादियुद्धवर्णनम् ।
विघाताज्जामातुः परमसुहृदो भोजनृपते-

र्जरासन्धे रुन्थत्यनवधिरुपाषान्धेऽथ मथुराम् ।
स्

थाद्यैर्थोद्योलब्धैः कतिपयवलस्त्वं वलयुत-

स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः ॥ ६ ॥
 
दशकम् – ७७]
 

 
विघातादिति । जरासन्धस्य जामाता कंसः, तत्पुत्र्योरस्तिप्रास्त्योः पति-

त्यात्, तस्य भोजनृपते[^१]र्बधाद् अनवधिरुपाश्चेषान्धे जरासन्धे मथुरां रुन्धति सति द्योः

स्वर्गाल्लब्धैर्मातलिनानीतै रथाद्यैः सपरिकरैः कतिपयबलः परिमितसेनासहितः

तदुपनीतं जरासन्धाहृतं त्रयोविंशत्यक्षौहिणि बलं समहृथाः सञ्जहर्थ ।॥ ६ ॥
 

 
बद्धं लादथ लेन लोत्तरं त्वं

भूयो बलोद्यमरसेन मुमोचिथैनम् ।

निश्शेपदिग्जयसमाहृतविश्वसैन्यात्
 

कोऽन्यस्ततो हि लपौरुवांस्तदानीम् ॥ ७॥
 
२६५
 

 
बद्धमिति । अथ बलेन बलाइ बद्धं बलेन उत्तरम् उत्कृष्टं भूयो

बलोद्यमरसेन जरासन्धः पराजितो भूयोऽपि भूरिबलमुपनेष्यतीति कौतुकेन एनं

जरासन्धं मुमोचिथ । कीदृशो जरासन्ध इत्यपेक्षायामाह--निश्शेषदिग्जये

समाहृतानि विश्वेषां सर्वनृपाणां सैन्यानि येन तस्माज्जरासन्धादन्यः कः ॥ ७ ॥
 

 
भग्नः स लग्नहृदयोऽपि नृपैः प्रणुन्नो
 

युद्धं त्वया व्यधित षोडशकृत्व एवम् ।

अक्षौहिणी: शिव शिवास्य जघन्थ विष्णो!
 

सम्भूय सैकनवतित्रिशतं तदानीम् ॥ ८ ॥
 

 
भग्न इति । सेस[^२] जरासन्धस्त्वत्सकाशात् सप्तदशकृत्वः पराजितः ॥ ८ ॥
 

 
अष्टादशेऽस्य समरे समुपेयुपिषि त्वं
 

दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या ।
 

 
[^
]. 'र्विघाताद्वधा' क. ग. पाठः,
[^
]. इदं क. ग. पुस्तकयोर्न दृश्यते,