This page has not been fully proofread.

भगवन्महिमानुवर्णनम् ।
 
नो चेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपश्चिद्रसा
 
र्द्रं
नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ॥ ७॥
 
दशकम् - १]
 
2
 

 
कष्टेति । हे अजित ! मायापारतन्त्र्यरहित ! ते तव सृष्टिचेष्टा कष्टा ।

कुत इत्यत आह —— --जीवभाजां बहुतरभवखेदावहेति । अत्र जीवशब्देन लिङ्ग-

शरीरमुच्यते, तद् भजन्तीति जीवभा[^१]जो जीवा एव, तेषाम् । भवखेदा जनन-

मरणदुःखानि, तानाहतीति तथा । इत्येवं मया मूढमतिना पूर्वमालोचितं चि
-
न्तितम् । तत्तु तथा नेत्याह--नैवमद्याभिजान इति । इदानीं त्वद्रूपास्वादन-

व्यापृते मनसि महानुपकार एवास्माकमिति निश्चिनोमीत्यर्थः । निश्चितमाह -
--
नो चेदिति । यदि त्वं त्वय्यनुशयितान् जीवान् तद्भोग्यं प्रपञ्चं च न सृजसि, तर्हि

जीवाः कथं केन प्रकारेण चिद्रसार्द्रं चिदानन्दामृतद्रवेणान्तर्बहिश्च व्याप्तं त्वद्वपुः

नेत्रैः श्रोत्रैश्च पीत्वा तद्दर्शनतदुपासनतत्कथा श्रवणद्वारेण हृदये कृत्वा परमरससु-

धाम्भोधिपूरे परमानन्दामृताम्भोधौ रमेरन् उन्मज्जननिमज्जनाभ्युक्षणास्वादनादि-

क्रियां कुर्युरित्यर्थः ॥ ७ ॥ .
 
-
 

 
एवं भगवतः सौन्द[^२]र्यगुणस्य लोकोत्तरत्वमुक्त्वा फलदातृत्वस्यापि लोको-

त्तरत्वं वर्णयति ---
 
--
 
[^
* ]नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यर्थितान-

प्यर्थान् कामानजस्त्<flag>स्रं</flag> वितरति परमानन्दसान्द्रां गतिं च ।

इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे ! त्वं

क्षुद्रं तं शक्रवाटीद्रुममभिलति व्यर्थमार्थिवजोऽयम् ॥ ८ ॥

 
नम्राणामिति । लोके हि पारिजातोऽभीष्टफलँल[^३]द इति भगवतस्तदतिशायि-

गुणानाह –– --हे हरे ! त्वं पारिजातः त्वदात्मकः कल्पवृक्षः नम्राणां नमस्कारमात्रे -

णापि भजतां पुरः पुरतः सततमपि सन्निधत्ते वरदित्सया प्रादुर्भवति । अ-

न्यस्तु[^४] कल्पवृक्षः स्वयं न सन्निधत्ते, न च नमस्कारमात्रेण, न च सततं[^५], किन्तु

 
[^
]. 'ज:, ते' ख. पाठ:.
[^
]. 'र्यस्य' ख. पाठ:.
[^
]. 'लं ददाति भ' ख. पाठ:.

[^
]. 'स्तु स्व' ख. पाठः.
[^
]. 'तं स्व' ख. पाठ:.
 

 
[^*]
ख-पुस्तके तु 'कारुण्याद् ' इत्यादिनवमश्लोकोऽष्टमत्वेन, 'नत्म्राणाम्' इत्याद्यष्टमश्लोको

नवमत्वेन च व्याख्यायते ।