This page has been fully proofread once and needs a second look.

२६४
 
नारायणीये
 
उपगत इति । प्रमदसम्भ्रमेण हर्षातिशयजनितसौजन्यव्यापारत्वरया कम्प्रौ

कम्पनशीलौ पयोधरौ यस्याः । विविधमाननं संमाननम् आदधतीं तां सुखं रम-

याञ्चकृषे ॥ २ ॥
 
[स्कन्धः - १०
 
-
 

 
पृष्टा वरं पुनरसाववृणोद् वराकी
 

भूयस्त्वया सुरतमेव निशान्तरेषु ।

सायुज्यमस्त्विति वदेद् बुध एव कामं
 

सामीप्यमस्त्वनिशमित्यपि नाब्रवीत् किम् ॥ ३ ॥
 

 
पृष्टेति । यदिच्छसि, तद् वृण्विति त्वया पुनः प्रस्थाने वरं पृष्टीटा[^१] असौ

सैरन्ध्री भूयस्त्वया सुरतमेवावृणोद्, न मोक्षम् त्वत्सायुज्यसामीप्यादिरूपम् । तत्र

बुधः सायुज्याख्यमोक्षरसाभिज्ञ एव सायुज्यमस्त्विति वदेत् प्रार्थयेत् । एषा तु वरा-

की निर्विषयमोक्षरसानभिज्ञेत्येतत् कामं भवतु । अनिशं सामीप्यमस्त्वि[^२]त्यपि किं

नाब्रवीत् । त्वत्सामीप्यसुखं तु तथा कञ्चित् कालमनुभूतमेव । तस्मात् सर्वमीश्वरे-

च्छापरतन्त्रमिति वेदितव्यम् ॥ ३ ॥
 

 
ततो भवान् देव! निशासु कासुचि-

न्मृगीदृशं तां निभृतं विनोदयन् ।

अदादुपश्लोक इति श्रुतं सुतं
 

स नारदात् सात्त्वततन्त्रविद् भौ ॥ ४ ॥

 
तत इति । उपश्लोक इति श्रुतं विश्रुतं सुतम् अदादूद् उत्पादयामास ।

सः नारदात् सात्त्वततन्त्रं पाञ्चरात्राद्यागमं वेत्तीति तथा ॥ ४ ॥
 

 
अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्या-

मभ्यर्चितो बहु नुतो मुदितेन तेन ।

एनं विसृज्य विपिनागतपाण्डवेय-

वृत्तं विवेदिथ तथा धृतराष्ट्रचेष्टाम् ॥ ५ ॥
 

 
अक्रूरेति । एनम् अक्रूरं विसृज्य विपिनाद् आगतानां पाण्डवेयानां वृत्त

तथा धृतराष्ट्रचेष्टां च विवेदिथ ॥ ५ ॥
 

 
[^
]. 'ष्टा सा सै' क. पाठः.
[^
]. 'स्विति किं' क. पाठः