This page has not been fully proofread.

सैरन्ध्रचामुपश्लोकोत्पत्तिवर्णनम् ।
 
एवं भक्तिः सकलभुवने नेक्षिता ने श्रुता वा
 
किं शास्त्रौधैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु ।
इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं
 
दृष्ट्वा दृष्टो गुरुपुरपते! पाहि मामामयौघात् ॥ ११ ॥
 
दशकम् ७७]
 
एवमिति । एवं गोपिकानामिव । शास्त्रौघैस्तपसा वा किं फलम् । तद्रहि-
तानामपि भक्तिदर्शनान्न शास्त्रादिफलं भक्तिरित्यर्थः । तस्माद् गोपिकाभ्यो नमो-
ऽस्तु । इति 'एवम् एवंभक्तिरित्यादिनमोऽस्त्वि'त्यन्तमन्त्र पुरस्सरं पुनः पुनस्ता नम-
स्कृत्य आनन्दाकुलं गोकुलादुपगतं त्वत्सन्निधिं प्राँप्तं तं त्यक्तभक्ताभिमानमुद्धवं
दृष्ट्वा हृष्टः इदानीमस्य मत्सखित्वाधिकारो जात इति सन्तुष्टः ॥ १२ ॥
 
इति उद्धवदूत्यवर्णनं षट्सप्ततितमं दशकं सैकम् ।
 
सैरन्ध्रयास्तदनु चिरं स्मरातुराया
यातोऽभूः सललितमुद्धवेन सार्धम् ।
आवासं त्वदुपगमोत्सवं सदैव
 
ध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥ १ ॥
 
२६३
 
सैरन्ध्रया इति । अद्यैष्यति कान्त इति प्रतिदिनं तदुचितवेषभूषणविभव-
संभरणपूर्वकं वासगृहे प्रतिपालनात् वासकसज्जिकायाः सैरन्ध्रया अनुलेपदाव्या
आवासं सललितं ललितवेषभूषणसहायसम्पत्सहितं यथा भवति तथा यातोऽभूः ।
त्वदुपगमोत्सवं त्वत्सङ्गमकौतुकम् ॥ १ ॥
 
उपगते त्वयि पूर्णमनोरथां
प्रमदसम्भ्रमकम्प्रपयोधराम् ।
विविधमाननमादधतीं मुदा
 
रहसि तां रमयाञ्चकृषे सुखम् ॥ २ ॥
 
१. 'बा' क. घ. पाठः २. 'क्त्यतिशयद' क. ग. पाठ:.
 
३. 'सवन्तं त्य' क. पाठ: