This page has been fully proofread once and needs a second look.

सैरन्ध्रचामुपश्लोकोत्पत्तिवर्णनम् ।
 
एवं भक्तिः सकलभुवने नेक्षिता नेन[^१] श्रुता वा
 

किं शास्त्रौधैःघैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु ।

इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं
 

दृष्ट्वा दृहृष्टो गुरुपुरपते! पाहि मामामयौघात् ॥ ११ ॥
 
दशकम् ७७]
 

 
एवमिति । एवं गोपिकानामिव । शास्त्रौघैस्तपसा वा किं फलम् । तद्रहि-

तानामपि भक्ति[^२]दर्शनान्न शास्त्रादिफलं भक्तिरित्यर्थः । तस्माद् गोपिकाभ्यो नमो-

ऽस्तु । इति 'एवम् एवंभक्तिरित्यादिनमोऽस्त्वि'त्यन्तमन्त्र पुरस्सरं पुनः पुनस्ता नम-

स्कृत्य आनन्दाकुलं गोकुलादुपगतं त्वत्सन्निधिं प्राँरा[^३]प्तं तं त्यक्तभक्ताभिमानमुद्धवं

दृष्ट्वा हृष्टः इदानीमस्य मत्सखित्वाधिकारो जात इति सन्तुष्टः ॥ १२ ॥
 

 
इति उद्धवदूत्यवर्णनं षट्सप्ततितमं दशकं सैकम् ।
 

 
सैरन्ध्र्यास्तदनु चिरं स्मरातुराया

यातोऽभूः सललितमुद्धवेन सार्धम् ।

आवासं त्वदुपगमोत्सवं सदैव
 

ध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥ १ ॥
 
२६३
 

 
सैरन्ध्र्या इति । अद्यैष्यति कान्त इति प्रतिदिनं तदुचितवेषभूषणविभव-

संभरणपूर्वकं वासगृहे प्रतिपालनात् वासकसज्जिकायाः सैरन्ध्र्या अनुलेपदाव्या
त्र्या
आवासं सललितं ललितवेषभूषणसहायसम्पत्सहितं यथा भवति तथा यातोऽभूः ।

त्वदुपगमोत्सवं त्वत्सङ्गमकौतुकम् ॥ १ ॥
 

 
उपगते त्वयि पूर्णमनोरथां

प्रमदसम्भ्रमकम्प्रपयोधराम् ।

विविधमाननमादधतीं मुदा
 

रहसि तां रमयाञ्चकृषे सुखम् ॥ २ ॥
 

 
[^
]. '<flag>बा</flag>' क. घ. पाठः
[^
]. 'क्त्यतिशयद्' क. ग. पाठ:ठः
[^३]
.
 
३.
'प्तवन्तं त्य' क. पाठ:
 
ठः