This page has not been fully proofread.

२६२
 
नारायणीये
 
[स्कन्धः - १०
 
व्यक्तभक्तंमन्यभा-
एवमुद्धवः स्त्रीणामपीश्वरे स्वातिशयप्रेमलक्षणभक्तिदर्शनात्
वस्ताः प्रत्येकमाश्वासयामास । तत्र प्रधानभूतायां राधायोमाश्वासनप्रकारमाह-
राधाया मे प्रियतममिदं मत्मियैवं ब्रवीति
 
त्वं किं मौनं कलयास सखे! मानिनी मत्प्रियेव ।
इत्याद्येव प्रवदति सखि! त्वत्प्रियो निर्जने मा-
मित्थंवादैररमयदयं त्वत्मियामुत्पलाक्षीम् ॥ ९ ॥
 
राधाया इति । हे सखि! राधे! त्वत्प्रियः श्रीकृष्णः निर्जने मामित्यादि
त्वत्सम्बन्धिवचनमेव प्रवदति । कथं, हे सखे ! उद्धव! मे राधाया इदं प्रियतमं,
मप्रिया सवं ब्रवीति किं त्वं मानिनी मप्रियेव मौनं कलयास धत्स इति ।
जनसंसदि तु तस्य गम्भीरचेतस्तया सन्नपि त्वद्विरहखेदो ज्ञातुमशक्यः । अयम्
उद्धव इत्थंवादैस्त्वत्प्रेमसूचकैर्वचनैरेव त्वप्रियां राधामरमयत् ॥ ९ ॥
 
"
 
सन्देशमाह --
 
एष्यामि द्रागनुपगमनं केवलं कार्यभाराद्
विश्लेषेऽपि स्मरणदृढतासम्भवान्मास्तु खेदः ।
ब्रह्मानन्दे मिलति नचिरात् सङ्गमो वा वियोग-
स्तुल्यो वः स्यादिति तव गिरा सोऽकरोन्निर्व्यथास्ताः ॥१०॥
 
एण्यामीति । अहं द्राग् झटिति एष्यामि । अनुपगमनं भवत्सन्निधावनागमनं
केवलं मम कार्यभारादेव, न प्रेममान्द्यात् । किञ्च भवतीनां मद्विश्लेषो महते
फलाय, मत्स्मरणस्य दृढतासम्भवात् । तस्माद् विश्लेषेविषयः खेदो मास्तु ।
स्मरणदृढतायाः समाध्यपरपर्यायायाः फलमाह – ब्रह्मानन्द इति । ब्रह्मरूपस्य -
मम स्मरणदृढतायां सत्यां नचिराद ब्रह्मानन्दे मिलति सति वो भवतीनां मत्सङ्ग -
मो मद्वियोगश्च तुल्यः स्यात् । विरहेऽपि वः सर्वात्मना न मद्विरहः, भवती-
नामप्यन्तरन्तर्यामिरूपेण ममैवावस्थानादिति भावः । इति या तव गीः सन्देशः,
तया स उद्धवस्ता निर्व्यथा अकरोत् ॥ १० ॥
 
१. 'या' क. ग. पाठः २. 'या आ' क. ग. पाठ:. ३. 'राधैवं' क. पाठः ४. 'सुकरः ।'
क. ग. पाठ.. ५ 'षेऽपि वः त्रे' क. ग. पाठः,