This page has been fully proofread once and needs a second look.

२६२
 
नारायणीये
 
[स्कन्धः - १०
 
व्यक्तभक्तंमन्यभा-
एवमुद्धवः स्त्रीणामपीश्वरे स्वातिशयप्रेमलक्षणभक्तिदर्शनात्
त्यक्तभक्तंमन्यभा-
वस्ताः प्रत्येकमाश्वासयामास । तत्र प्रधानभूतायां[^१] राधायोया[^२]माश्वासनप्रकारमाह-
-
 
राधाया मे प्रियतममिदं मत्मिप्रियैवं ब्रवीति
 

त्वं किं मौनं कलयासयसि सखे! मानिनी मत्प्रियेव ।

इत्याद्येव प्रवदति सखि! त्वत्प्रियो निर्जने मा-

मित्थंवादैररमयदयं त्वत्मिप्रियामुत्पलाक्षीम् ॥ ९ ॥
 

 
राधाया इति । हे सखि! राधे! त्वत्प्रियः श्रीकृष्णः निर्जने मामित्यादि

त्वत्सम्बन्धिवचनमेव प्रवदति । कथं, हे सखे ! उद्धव! मे राधाया इदं प्रियतमं,

मत्
प्रिया सै[^३]वं ब्रवीति, किं त्वं मानिनी मत्प्रियेव मौनं कलयासयसि धत्स इति ।

जनसंसदि तु तस्य गम्भीरचेतस्तया सन्नपि त्वद्विरहखेदो ज्ञातुमश[^४]क्यः । अयम्

उद्धव इत्थंवादैस्त्वत्प्रेमसूचकैर्वचनैरेव त्वत्प्रियां राधामरमयत् ॥ ९ ॥
 
"
 

 
सन्देशमाह --
 

 
एष्यामि द्रागनुपगमनं केवलं कार्यभाराद्

विश्लेषेऽपि स्मरणदृढतासम्भवान्मास्तु खेदः ।

ब्रह्मानन्दे मिलति नचिरात् सङ्गमो वा वियोग-

स्तुल्यो वः स्यादिति तव गिरा सोऽकरोन्निर्व्यथास्ताः ॥१०॥
 

 
ण्ष्यामीति । अहं द्राग् झटिति एष्यामि । अनुपगमनं भवत्सन्निधावनागमनं

केवलं मम कार्यभारादेव, न प्रेममान्द्यात् । किञ्च भवतीनां मद्विश्लेषो महते

फलाय, मत्स्मरणस्य दृढतासम्भवात् । तस्माद् विश्लेषेष[^५]विषयः खेदो मास्तु ।

स्मरणदृढतायाः समाध्यपरपर्यायायाः फलमाह--ब्रह्मानन्द इति । ब्रह्मरूपस्य <error>-
</error>
मम स्मरणदृढतायां सत्यां नचिराद ब्रह्मानन्दे मिलति सति वो भवतीनां मत्सङ्ग -

मो मद्वियोगश्च तुल्यः स्यात् । विरहेऽपि वः सर्वात्मना न मद्विरहः, भवती-

नामप्यन्तरन्तर्यामिरूपेण ममैवावस्थानादिति भावः । इति या तव गीः सन्देशः,

तया स उद्धवस्ता निर्व्यथा अकरोत् ॥ १० ॥
 

 
[^
]. 'या' क. ग. पाठः
[^
]. 'या आ' क. ग. पाठ:. ठः
[^
]. 'राधैवं' क. पाठः
[^
]. 'सुकरः ।'
क. ग. पाठ.. ठः
[^
]. 'षेऽपि वः त्रे<flag>खे</flag>' क. ग. पाठः,