This page has not been fully proofread.

दशकम् - ७६]
 
उद्धवदूत्यवर्णनम् ।
 
२६१
 
द्विलसितानां कुहकवचसां कपटवचनानाम् । अथवा हे कुहक! कपट ! तबोन्मा-
दानाम् अननुसंहितपूर्वापराणां वचसां का वा विस्मरेत् ॥ ५ ॥
 
रासक्रीडालुलितललितं विश्लथत्केशपाशं
 
मन्दोद्भिन्न श्रमजलकणं लोभनीयं त्वैदङ्गम् ।
कारुण्याब्धे! सकृदपि समालिङ्गितुं दर्शयेति
 
प्रेमोन्मादाद् भुवनमदन! त्वत्प्रियास्त्वां विलेषुः ॥ ६॥
 
रासेति । रासक्रीडायां लुलितं मर्दितं ललितं सुन्दरं च त्वदनं हे कारु-
ण्याब्धे ! भक्तवत्सल ! सकृद् एकवारमपि समालिङ्गितुमपि । भुवनमदन ! सर्वेषां
सर्वदापि सर्वकामोन्मादप्रद! ॥ ६ ॥
 
एवम्पायैर्विवशवचनैराकुला गोपिकास्ता-
स्त्वत्सन्देशैः प्रकृतिमनयत् सोऽथ विज्ञानगर्भैः ।
भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभि-
स्तत्तद्वार्तासरसमनयत् कानिचिद् वासराणि ॥ ७ ॥
 
एवमिति । अथोद्धवो विज्ञानगर्भेस्त्वत्सन्देशैस्ताः प्रकृतिं कृतार्थतामनयत् ।
त्वन्मयीभिः त्वच्चिन्तयात्मानं विस्मरन्तीभिः तत्तद्वार्ताभिः सरसं यथा भवति तथौ
कानिचिद् वासराण्यनयत् ॥ ७ ॥
 
त्वत्प्रोद्गानैः सहितमनिशं सर्वतो गेहकृत्यं
 
त्वद्वार्तेव प्रसरति मिथः सैव चोत्स्वापलापाः ।
चेष्टाः प्रायस्त्वद्नुकृतयस्त्वन्मयं सर्वमेवं
 
दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयम् ॥ ८ ॥
 
त्वादति । उत्खापलापाः स्वप्नवचनानि सैव त्वद्वार्तेव । चेष्टाः व्या-
पाराः प्रायस्त्वदनुकरणरूपाः । एवम् उक्तप्रकारेण तासां सर्वं त्वन्मयं दृष्ट्वा
अयमुद्धवो विस्मयादधिकं व्यमुहद् विमुमोह प्रतिपत्तिमूढोऽभूदित्यर्थः ॥ ८ ॥
 
१. 'का वि' क. पाठः. २. 'त' घ ङ च पाठ:.
 
३. 'थान' क. पाठः,