This page has been fully proofread once and needs a second look.

दशकम् - ७६]
 
उद्धवदूत्यवर्णनम् ।
 
२६१
 
द्विलसितानां कुहकवचसां कपटवचनानाम् । अथवा हे कुहक! कपट ! तबोवोन्मा-

दानाम् अननुसंहितपूर्वापराणां वचसां का[^१] वा विस्मरेत् ॥ ५ ॥
 

 
रासक्रीडालुलितललितं विश्लथत्केशपाशं
 

मन्दोद्भिन्न श्रमजलकणं लोभनीयं त्वैव[^२]दङ्गम् ।

कारुण्याब्धे! सकृदपि समालिङ्गितुं दर्शयेति
 

प्रेमोन्मादाद् भुवनमदन! त्वत्प्रियास्त्वां विलेषुःपुः ॥ ६॥
 

 
रासेति । रासक्रीडायां लुलितं मर्दितं ललितं सुन्दरं च त्वदनंङ्गं हे कारु-

ण्याब्धे ! भक्तवत्सल ! सकृद् एकवारमपि समालिङ्गितुमपि । भुवनमदन ! सर्वेषां

सर्वदापि सर्वकामोन्मादप्रद! ॥ ६ ॥
 

 
एवम्पाप्रायैर्विवशवचनैराकुला गोपिकास्ता-

स्त्वत्सन्देशैः प्रकृतिमनयत् सोऽथ विज्ञानगर्भैः ।

भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभि-

स्तत्तद्वार्तासरसमनयत् कानिचिद् वासराणि ॥ ७ ॥
 

 
एवमिति । अथोद्धवो विज्ञानगर्भेभैस्त्वत्सन्देशैस्ताः प्रकृतिं कृतार्थतामनयत् ।

त्वन्मयीभिः त्वच्चिन्तयात्मानं विस्मरन्तीभिः तत्तद्वार्ताभिः सरसं यथा भवति तथौ
था[^३]
कानिचिद् वासराण्यनयत् ॥ ७ ॥
 

 
त्वत्प्रोद्गानैः सहितमनिशं सर्वतो गेहकृत्यं
 
त्वद्वार्ते

त्वद्वार्तै
व प्रसरति मिथः सैव चोत्स्वापलापाः ।

चेष्टाः प्रायस्त्वद्नुकृतयस्त्वन्मयं सर्वमेवं
 

दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयम् ॥ ८ ॥
 
त्वाद

 
त्वदि
ति । उत्खास्वापलापाः स्वप्नवचनानि सैव त्वद्वार्तेतैव । चेष्टाः व्या-

पाराः प्रायस्त्वदनुकरणरूपाः । एवम् उक्तप्रकारेण तासां सर्वं त्वन्मयं दृष्ट्वा

अयमुद्धवो विस्मयादधिकं व्यमुहद् विमुमोह प्रतिपत्तिमूढोऽभूदित्यर्थः ॥ ८ ॥
 

 
[^
]. 'का वि' क. पाठः
[^२]
. 'त' घ. 'त' घ .. पाठ:.
 
ठः
[^
]. 'थान' क. पाठः,