This page has not been fully proofread.

२१०
 
नारायणीये
 
प्रातर्दृष्ट्वा मणिमयरथं शङ्किताः पङ्कजाक्ष्यः
श्रुत्वा प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः ॥ ३ ॥
 
[स्कन्धः - १०
 

 
त्वदिति । त्वन्माहात्म्यस्य प्रथिमा विस्तारः तत्पिशुनं तत्सूचकं गोकुलं
तत्र नन्दगेहं प्राप्य सायं सन्ध्यायाम् । अतः खखगेहस्थाभिर्गोपीभिरुद्धवागमनं
न विदितम् । अतः केवलं नन्दं यशोदामेव बहु अतिशयेन रमयामास । प्रातस्त्व-
दागमं शङ्किताः ॥ ३ ॥
 
दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामं
 
स्मृत्वा स्मृत्वा तव विलसितान्युच्चकैस्तानि तानि ।
रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुः
सौजन्यादीन् निजपरभिदामप्यलं विस्मरन्त्यः ॥ ४ ॥
 
दृष्ट्येति । त्वदुपमाभ्यां त्वद्वेषभूषणसदृशाभ्यां लसद्भ्यां वेषभूषाभ्याम्
आभरणतद्विन्यासविशेषाभ्यामभिरामम् । अतः सदृशदर्शनादुच्चकैरतिशयेन तानि
तानि विलसितानि क्रीडाः स्मृत्वा बाप्पकण्ठतया रुद्ध आलापो यासाम् । त्वद्गत-
मानसतया निजपरभिदां स्वपरभेदमपि ॥ ४ ॥
 
श्रीमन्! किं त्वं पितृजनकृते प्रेषितो निर्दयेन
 
क्वासौ कान्तो नगरसुदृशां हा हरे! नाथ! पायोः ।
आश्लेषाणाममृतवपुषो हन्त ते चुम्बनाना-
सुन्मादानां कुहकवचसां विस्मरेत् कान्त ! का वा ॥ ५ ॥
 
श्रीमन्निति । निर्दयेन कृष्णेन पितृजनकृते नन्दयशोदयोः प्रियार्थे किं
प्रेषितोऽसि । असौ नगरसुदृशां कान्तः विदग्धजनविधेय इदानीं क्व इति प्रणय-
वचनसमनुस्मृतभगवद्भुणकृतपारवश्या ऊचुः हा इति । हरे! भक्तजनसन्तापशमन!
हा नाथ! अस्मत्प्राणसंरक्षक! निजरूपामृतपानेन जीवय । अमृतमयं वपुर्यस्य तस्य
तव आश्लेषाणां चुम्बनानां हन्त उन्मादानाम् आत्मानं विस्मृत्यैव कृतानां तत्त-
१. 'हि' च. पाठः, 'प' घ. ङ. पाठः.