This page has been fully proofread once and needs a second look.

२१०
 
नारायणीये
 
प्रातर्दृष्ट्वा मणिमयरथं शङ्किताः पङ्कजाक्ष्यः

श्रुत्वा प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः ॥ ३ ॥
 
[स्कन्धः - १०
 

 

 
त्वदिति । त्वन्माहात्म्यस्य प्रथिमा विस्तारः तत्पिशुनं तत्सूचकं गोकुलं

तत्र नन्दगेहं प्राप्य सायं सन्ध्यायाम् । अतः खखस्वस्वगेहस्थाभिर्गोपीभिरुद्धवागमनं

न विदितम् । अतः केवलं नन्दं यशोदामेव बहु अतिशयेन रमयामास । प्रातस्त्व-

दागमं शङ्किताः ॥ ३ ॥
 

 
दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामं
 

स्मृत्वा स्मृत्वा तव विलसितान्युच्चकैस्तानि तानि ।

रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुः

सौजन्यादीन् निजपरभिदामप्यलं विस्मरन्त्यः ॥ ४ ॥
 

 
दृष्ट्येवेति । त्वदुपमाभ्यां त्वद्वेषभूषणसदृशाभ्यां लसद्भ्यां वेषभूषाभ्याम्

आभरणतद्विन्यासविशेषाभ्यामभिरामम् । अतः सदृशदर्शनादुच्चकैरतिशयेन तानि

तानि विलसितानि क्रीडाः स्मृत्वा बाप्पकण्ठतया रुद्ध आलापो यासाम् । त्वद्गत-

मानसतया निजपरभिदां स्वपरभेदमपि ॥ ४ ॥
 

 
श्रीमन्! किं त्वं पितृजनकृते प्रेषितो निर्दयेन
 

क्वासौ कान्तो नगरसुदृशां हा हरे! नाथ! पायोः ।
याः[^१] ।
आश्लेषाणाममृतवपुषो हन्त ते चुम्बनाना-
सु

मु
न्मादानां कुहकवचसां विस्मरेत् कान्त ! का वा ॥ ५ ॥
 

 
श्रीमन्निति । निर्दयेन कृष्णेन पितृजनकृते नन्दयशोदयोः प्रियार्थेथЬ किं

प्रेषितोऽसि । असौ नगरसुदृशां कान्तः विदग्धजनविधेय इदानीं क्व इति प्रणय-

वचनसमनुस्मृतभगवद्भुगुणकृतपारवश्या ऊचुः हा इति । हरे! भक्तजनसन्तापशमन!

हा नाथ! अस्मत्प्राणसंरक्षक! निजरूपामृतपानेन जीवय । अमृतमयं वपुर्यस्य तस्य

तव आश्लेषाणां चुम्बनानां हन्त उन्मादानाम् आत्मानं विस्मृत्यैव कृतानां तत्त-

 
[^
]. 'हि' च. पाठः, 'प' घ. ङ. पाठः.