This page has not been fully proofread.

उद्धवदूत्यवर्णनम् ।
 
२१९
 
अथोपनयनपूर्वकं विद्यां गृहीत्वा मृतपुत्रं दक्षिणीकृत्य समावृत्त इत्याह --
गत्वा सान्दीपनिमथ चतुष्पष्टिमात्रैरहोभिः
सर्वज्ञस्त्वं सह मुसलिना सर्वविद्यां गृहीत्वा ।
पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थ
 
दत्त्वा तस्मै निजपुरमगा नादयन् पाञ्चजन्यम् ॥ १ ॥
 
दशकम् – ७६]
 
गत्वेति । स्वतः सर्वज्ञस्त्वं, तथापि लोकसङ्ग्रहार्थं सान्दीपनि नाम मुनिं
गत्वोपैनयनं प्राप्य सर्वविद्याः साङ्गोपाङ्गोपवेदरूपाः गृहीत्वा नष्टं मृतं गुरोः पुत्रं
तस्मै गुरवे दक्षिणार्थं दत्त्वा पाञ्चजन्यं शङ्खवेषधरपञ्चजननामासुरवधात् तदङ्गप्र-
भवं शङ्खम् ॥ १ ॥
 
श्रीकृष्णेन बृन्दावनान्मथुराप्रस्थाने गोपीनां परितापैशमनार्थं यदुक्तम्
'अचिरादुपयामि सन्निधिं व ' इति तत् सत्यं कर्तुमात्मनिर्विशेषमुद्धवं मथुरास्थः
स्वयं प्रेषयामासेल्याह——
 
स्मृत्वा स्मृत्वा पशुपसुदृश: प्रेमभारमणुन्नाः
कारुण्येन त्वमपि विवशः माहिणोरुद्धवं तम् ।
किञ्चामुष्मै परमसुहृदे भक्तवर्याय तासां
भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् ॥ २ ॥
 
स्मृत्वेति । पशुपसुदृशो गोप्यः त्वां स्मृत्वा स्मृत्वा पुनः पुनः स्मरणात्
प्रेमभारेण अनुरागातिशयेन प्रणुन्नाः परवशा जाताः । त्वमपि कारुण्येन भक्तवा-
त्सल्येन विवशः परवशः । किञ्चेति, उद्धवप्रेषणे हेत्वन्तरमप्यस्तीत्यर्थः । तदेवाह-
अमुष्मा इति । तासां भक्युद्रेकम् उद्धवात् भक्त्यतिशयम् अमुष्मै उद्धवाय प्रद
र्शयिष्यन् प्रदर्शनार्थमित्यर्थः । परमसुहृदे भक्तवर्यायेति भक्तवर्याभिमानापगम
एवं त्वत्परमसुहृत्त्वमुचितमिति तवाभिप्राय इत्यभिप्रायः ॥ २ ॥
 
त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं
त्वद्वार्ताभिर्वहु स रमयामास नन्दं यशोदाम् ।
१. 'पायनपूर्वकं प्रा' क. पाठ: २. 'पप्रश' क. पाठः,