This page has been fully proofread once and needs a second look.

उद्धवदूत्यवर्णनम् ।
 
२१९
 
अथोपनयनपूर्वकं विद्यां गृहीत्वा मृतपुत्रं दक्षिणीकृत्य समावृत्त इत्याह --

 
गत्वा सान्दीपनिमथ चतुष्पष्टिमात्रैरहोभिः

सर्वज्ञस्त्वं सह मुसलिना सर्वविद्यां गृहीत्वा ।

पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्
 
थं
दत्त्वा तस्मै निजपुरमगा नादयन् पाञ्चजन्यम् ॥ १ ॥
 
दशकम् – ७६]
 

 
गत्वेति । स्वतः सर्वज्ञस्त्वं, तथापि लोकसङ्ग्रहार्थं सान्दीपनिनिं नाम मुनिं

गत्वोपैप[^१]नयनं प्राप्य सर्वविद्याः साङ्गोपाङ्गोपवेदरूपाः गृहीत्वा नष्टं मृतं गुरोः पुत्रं

तस्मै गुरवे दक्षिणार्थं दत्त्वा पाञ्चजन्यं शङ्खवेषधरपञ्चजननामासुरवधात् तदङ्गप्र-

भवं शङ्खम् ॥ १ ॥
 

 
श्रीकृष्णेन बृन्दावनान्मथुराप्रस्थाने गोपीनां परितापैप[^२]शमनार्थं यदुक्तम्

'अचिरादुपयामि सन्निधिं व ' इति तत् सत्यं कर्तुमात्मनिर्विशेषमुद्धवं मथुरास्थः

स्वयं प्रेषयामासेल्त्याह——
 
--
 
स्मृत्वा स्मृत्वा पशुपसुदृश: प्रेमभारप्रणुन्नाः

कारुण्येन त्वमपि विवशः माहिणोरुद्धवं तम् ।

किञ्चामुष्मै परमसुहृदे भक्तवर्याय तासां

भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् ॥ २ ॥
 

 
स्मृत्वेति । पशुपसुदृशो गोप्यः त्वां स्मृत्वा स्मृत्वा पुनः पुनः स्मरणात्

प्रेमभारेण अनुरागातिशयेन प्रणुन्नाः परवशा जाताः । त्वमपि कारुण्येन भक्तवा-

त्सल्येन विवशः परवशः । किञ्चेति, उद्धवप्रेषणे हेत्वन्तरमप्यस्तीत्यर्थः । तदेवाह-
-
अमुष्मा इति । तासां भक्युद्रेकम् उद्धवात् भक्त्यतिशयम् अमुष्मै उद्धवाय प्रद
-
र्शयिष्यन् प्रदर्शनार्थमित्यर्थः । परमसुहृदे भक्तवर्यायेति भक्तवर्याभिमानापगम

एवं त्वत्परमसुहृत्त्वमुचितमिति तवाभिप्राय इत्यभिप्रायः ॥ २ ॥
 

 
त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं

त्वद्वार्ताभिर्वहु स रमयामास नन्दं यशोदाम् ।

 
[^
]. 'पायनपूर्वकं प्रा' क. पाठ: ठः
[^
]. 'पप्रश' क. पाठः,