This page has not been fully proofread.

मास
 
मितस्य
 
नारायणीये
 
[स्कन्धः - १०
 
"
 
वसुदेवनन्दोग्रसेनादीन् । व्याप्तस्योत्सारणमशक्यं तदपि समशिषत् आज्ञापया-
मास । दुष्टस्य कंसस्योक्तिभिः रुष्टः कुपितस्त्वम् अञ्चन् उत्पतन् उदञ्चतः उन्न-
त्मतस्य खड़स्य व्याबल्गेन चलनेन दुस्सङ्ग्रहं ग्रहीतुमशक्यमपि हठाद् बला-
त्कारेणैव औग्रसेनिं कंसं प्राग्रहीः ॥ ८ ॥
 
२५८
 
सद्यो निष्पिष्टसन्धि भुवि नरपतिमापात्य तस्योपरिष्टात्
त्वय्यापात्ये # तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टिः ।
किं किं ब्रूमस्तदानीं सततमपि भिया त्वगतात्मा स भेजे
 
सायुज्यं त्वद्वधोत्था पैरम ! परमियं वासना कालनेमेः ॥ ९ ॥
सद्य इति । आपात्य पातयित्वा तस्योपरिष्टाद् उपरि आपात्ये आपतति
त्वयि तव कंसोपरिपतनं नाकिनां पुष्पवृष्टिपतनमपि युगपज्जातमित्यर्थः । किं किं
ब्रूमः । त्वत्स्मरणं त्वत्सायुज्यं कुरुत इत्यत्रोपपत्तीर्बहु न कथयामः, यतस्तदानीं
भिया सततं त्वद्गतात्मा स कंसः सायुज्यं भेजे । यद् भीत्यापि विष्णुस्मरणं, सेयं
परं केवलं कालनेमेस्त्वद्वधोत्था बासना । कंसः प्राक् कालनेमिर्नामासुरः । स च
विष्णुना हतः ॥ ९ ॥
 
तद्भ्रातृनष्ट पिष्ट्वा द्रुतमथ पितरौ सन्नमन्नुग्रसेनं
 
कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन् कामदानैः ।
भक्तानामुत्तमं चोद्धवममरगुरोराप्तनीतिं सखायं
 
लब्ध्वा तुष्टो नगर्यो पवनपुरपते ! रुन्धि मे सर्वरोगान् ॥१०॥
तदिति । तद्भ्रातॄन् कंसानुजान् कङ्कन्यग्रोधकादीन् । पितरौ देवकीवसु-
देवौ । उच्चैः अतिशयेन मोदयन् । अमरगुरोः बृहस्पतेः आप्ता गृहीता नीतिर्नय
शास्त्रं येन तमुद्धवं सखायं कार्यसचिवतया नर्मसचिवतया च लब्ध्वा तुष्टः कृत-
कृत्य इव नगर्यो वसन्निति शेषः ॥ १० ॥
 
इति कुवलयापीढवभवर्णनं भगवतो महरङ्गप्रवेशवर्णनं मल्लयुद्धवर्णनं
मल्लवधवर्णनं कंसवधादिवर्णनं च
पञ्चसप्ततितमं दशकम् ।
 
१. 'ण औ' क.ग. पाठ:. २. 'सम् ॥' क. पाठः ३. 'वरद! ' क. घ. ङ. च. पाठ: ४. 'कृत्वा तु'
 
भ. ङ. पाठः.
 
* आपततीत्यापात्यः 'भव्यगेय -' (३-४-६८) इति निपातनात् कर्तरि ण्यत् ।