This page has been fully proofread once and needs a second look.

मास
 
मितस्य
 
नारायणीये
 
[स्कन्धः - १०
 
"
 
वसुदेवनन्दोग्रसेनादीन् । व्याप्तस्योत्सारणमशक्यं, तदपि समशिषत् आज्ञापया-

मास । दुष्टस्य कंसस्योक्तिभिः रुष्टः कुपितस्त्वम् अञ्चन् उत्पतन् उदञ्चतः उन्न-
त्म

<flag>त्मि</flag>
तस्य खड़ड्गस्य व्याल्गेन चलनेन दुस्सङ्ग्रहं ग्रहीतुमशक्यमपि हठाद् बला-

त्कारेणै[^१]व औग्रसेनिं कं[^२]सं प्राग्रहीः ॥ ८ ॥
 
२५८
 

 
सद्यो निष्पिष्टसन्धिधिं भुवि नरपतिमापात्य तस्योपरिष्टात्

त्वय्यापात्ये #[^*] तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टिः ।

किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे
 

सायुज्यं त्वद्वधोत्था पैप[^३]रम ! परमियं वासना कालनेमेः ॥ ९ ॥

 
सद्य इति । आपात्य पातयित्वा तस्योपरिष्टाद् उपरि आपात्ये आपतति

त्वयि तव कंसोपरिपतनं नाकिनां पुष्पवृष्टिपतनमपि युगपज्जातमित्यर्थः । किं किं

ब्रूमः । त्वत्स्मरणं त्वत्सायुज्यं कुरुत इत्यत्रोपपत्तीर्बहु न कथयामः, यतस्तदानीं

भिया सततं त्वद्गतात्मा स कंसः सायुज्यं भेजे । यद् भीत्यापि विष्णुस्मरणं, सेयं

परं केवलं कालनेमेस्त्वद्वधोत्था बावासना । कंसः प्राक् कालनेमिर्नामासुरः । स च

विष्णुना हतः ॥ ९ ॥
 

 
तद्भ्रातृतॄनष्ट पिष्ट्वा द्रुतमथ पितरौ सन्नमन्नुग्रसेनं
 

कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन् कामदानैः ।

भक्तानामुत्तमं चोद्धवममरगुरोराप्तनीतिं सखायं
 

[^४]ब्ध्वा तुष्टो नगर्योयां पवनपुरपते ! रुन्धि मे सर्वरोगान् ॥१०॥

 
तदिति । तद्भ्रातॄन् कंसानुजान् कङ्कन्यग्रोधकादीन् । पितरौ देवकीवसु-

देवौ । उच्चैः अतिशयेन मोदयन् । अमरगुरोः बृहस्पतेः आप्ता गृहीता नीतिर्नय
-
शास्त्रं येन तमुद्धवं सखायं कार्यसचिवतया नर्मसचिवतया च लब्ध्वा तुष्टः कृत-

कृत्य इव नगर्योयां वसन्निति शेषः ॥ १० ॥
 

 
इति कुवलयापीढवभडवधवर्णनं भगवतो मल्लरङ्गप्रवेशवर्णनं मल्लयुद्धवर्णनं

मल्लवधवर्णनं कंसवधादिवर्णनं च

 
पञ्चसप्ततितमं दशकम् ।
 

 
[^
]. 'ण औ' क.ग. पाठ:. ठः
[^
]. 'सम् ॥' क. पाठः
[^
]. 'वरद! ' क. घ. ङ. च. पाठ: ठः
[^
]. 'कृत्वा तु'
 
. ङ. पाठः.
 

 
[^
*] आपततीत्यापात्यः 'भव्यगेय -' (३-४-६८) इति निपातनात् कर्तरि ण्यत् ।