This page has not been fully proofread.

दशकम् – ७५]
 
मल्लवधवणनम् ।
 
२१७
 
पुण्यकाले पुण्यपरिपाक उपगते इदंप्रथमं दृष्ट्वा विगतपापाः पूर्णानन्दाश्च सन्तः
त्वद्दर्शनेन स्मृतानि त्वच्चरितानि सरसं सानन्दं यथा भवति तथा अभिजगुः
प्रशशंसुरित्यर्थः ॥ ५ ॥
 
चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली
त्वां रामं चाभिषेदे झटझटिति मिथो मुष्टिपातातिरूक्षम् ।
उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं
 
मृत्योः मागेव मल्लमभुरगमदयं भूरिशो बन्धमोक्षान् ॥ ६ ॥
 
"
 
चाणूर इति । झटझटिति सशब्दं मिथो मुष्टिपातरतिरूक्षं यथा भवति
तथा । उत्पात उन्नयनम् आपातनं भुव्यवपातनम्, मिथो बद्धहस्तपादयोरितरे-
तरत आकर्षणम्, एवंविधानि विविधानि रणानि ताबदासताम् । मृत्योर्मरणात्
प्रागेवान्योन्यहस्तपादादिकृतान् बन्धान् मोक्षांश्चायमगमत् किमुच्यते मृतो बन्धा-
न्मोक्षमगमदितीति भावः ॥ ६ ॥
 
9
 
हा धिक् कष्टं कुमारौ सुललितवपुषौ मल्लवीरौ कठोरौ
 
न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीम् ।
चाणूरं तं करोद्भ्रामणविगलदसुं पोथयामासिथोर्व्या
पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ॥ ७॥
हा धिगिति । करेण यद् उद्धामणं तेनैव बिगलदसुम् उर्व्यां पोथयामासिथ
प्रक्षिप्तवान् । नष्टशिष्टैः प्राणपरीप्सया दधावे धावनमकारि ॥ ७ ॥
 
कंसः संवार्य तूर्ये खलमतिरविदन् कार्यमार्यान् पितृस्ता-
नाहन्तुं व्याप्तमूर्तेस्तव च समशिषद् दूरमुत्सारणाय ।
रुष्टो दुष्टोक्तिभिस्त्वं गरुड इव गिरिं मञ्चमञ्चनुदञ्चत्-
खड़व्यावलग दुस्संग्रहमपि च हठात् प्राग्रहीरौ ग्रसेनिम् ॥ ८ ॥
कंस इति । कंसः कार्यम् एवं स्थिते यत् कर्तव्यं त्वत्पादपतनं, तद् भ
वितव्यताबलाद् अविदन् अजानन् आर्यान् सज्जनान् । आहन्तुं निग्रहाय । पितॄन्
 
१. 'न्तुं तन्त्रि' ख. पाठ:.