This page has not been fully proofread.

नारायणीये
 
[स्कन्धः - १०
 
मल्लक्रीडारङ्गमाविशन्तम्
 
। मङ्गल्यरूपयाङ्गभङ्गया रभसहृतानि बलात्कारेण हृतानि
मनोलोचनानि येपाम् । हंहो हे लोकाः ! यत्रोऽयं, स नन्दस्त्रिजगति धन्यः
नु निश्चितम् । अथवा नाह नहि, याः एनं स्तनान्तरे कृत्वा आलिङ्गनादि-
सुखमन्वभूवन्, ताः पशुपाङ्गनाः नन्दादपि धन्यतमा इति केचित् । नो नो
गोप्यः, यास्य मातृभावमन्वभूत्, सा यशोदा धन्या । नो नो यशोदा, वयमेव
धन्येक्षणाः यानि श्रीकृष्णाये परब्रह्मणि निमग्नानि, तान्यस्माकमीक्षणान्थेव
भाग्यवन्तीति शशंसुः स्तुतवन्तः ॥ ४ ॥
 
२५६
 
ननु सर्वेषामेवं मथि स्नेहबहुमानादेः किं कारणमित्याशङ्कायामाह-
पूर्ण ब्रह्मैव साक्षान्निरवधिपरमानन्दसान्द्रप्रकाशं
 
गोपेषु त्वं व्यलासीर्न खलु बहुजनैस्तावदावेदितोऽभूः ।
दृष्ट्वा त्वां तदेदंप्रथममुपगते पुण्यकाले जनौवाः
पूर्ण नन्दा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि ॥ ५ ॥
 
-
 
पूर्णमिति । पूर्ण सर्वा गतम् । अतस्तत्रैव सर्वशरीरेषु जीवरूपेणावस्था-
नादू आत्मनि च सर्वेशं निरतिशय स्नेहबहुमानादिसम्भवात् त्वयीदमुपपद्यत इति
भावः । नन्वेकस्याेकत्राव थानं कथमित्यत्राह — ब्रह्मेति । आकाशवद् बृहत्त्वा-
देवेत्यर्थः । ननु ब्रह्मगः कथं चाक्षुषत तत्राह - साक्षाद् गोपेषु व्यलासीरिति ।
श्रीकृष्णात्मनावतीर्णत्वादित्यर्थः । ननु शरीरपरिग्रहश्चेद् ममापि संसारप्रङ्ग इत्य-
त्राह — निरवधिपरमानन्दसान्द्रप्रकाशमिति । निरवधि नित्यं परमानन्दरूपं
सान्द्रप्रकाशं विज्ञानवनम् । तत्र नित्यत्वात् जननमरणासम्भवः, परमानन्दरूप -
त्वाद् दुःखाभावः, विज्ञानघनत्वादज्ञानाभावश्चेति संसारनिदानाभावान्नोक्तदोष
इति भावः । कथं तर्हि कंसादयो मां ब्रह्मतया न जानन्तीत्यत आह - न
खल्विति । यैःकैाश्चजन्म जन्मान्तरार्जितपुण्यपरिपाकवद्भिरेव त्वं ब्रह्मेत्यावेदितो-
भूरित्यर्थः । ननु तर्हि पारिठानां कथं मदर्शनं संबोभवीतीति चेत्, सत्यं, पुण्य-
पापयो: पुण्याधिक्ये सति तलरिपाकत्रशेन त्वद्दर्शनसुखं तावत् सम्भवति । तत-
स्त्वद्दर्शनस्मरणचरित्रवर्णनादेना विगतपापाः सन्तः क्रमादेतेऽपि त्वत्तत्त्वज्ञानेऽधि-
क्रियन्त एवेत्यभिप्रायेणाह- दृष्ट्वाथ त्वामिति । जनौषाः शानिनोऽज्ञानिनश्च त्यां
 
-