This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः - १०
 
मल्लक्रीडारङ्गमाविशन्तम्
 
। मङ्गल्यरूपयाङ्गभङ्ग्या रभसहृतानि बलात्कारेण हृतानि

मनोलोचनानि येपाषाम् । हंहो हे लोकाः ! यत्पुत्रोऽयं, स नन्दस्त्रिजगति धन्यः

नु निश्चितम् । अथवा नाह नहि, याः एनं स्तनान्तरे कृत्वा आलिङ्गनादि-

सुखमन्वभूवन्, ताः पशुपालाङ्गनाः नन्दादपि धन्यतमा इति केचित् । नो नो

गोप्यः, यास्य मातृभावमन्वभूत्, सा यशोदा धन्या । नो नो यशोदा, वयमेव

धन्येक्षणाः यानि श्रीकृष्णाख्ये परब्रह्मणि निमग्नानि, तान्यस्माकमीक्षणान्थेव

भाग्यवन्तीति शशंसुः स्तुतवन्तः ॥ ४ ॥
 
२५६
 

 
ननु सर्वेषामेवं मथियि स्नेहबहुमानादेः किं कारणमित्याशङ्कायामाह-
-
 
पूर्णं ब्रह्मैव साक्षान्निरवधिपरमानन्दसान्द्रप्रकाशं
 

गोपेषु त्वं व्यलासीर्न खलु बहुजनैस्तावदावेदितोऽभूः ।

दृष्ट्वा त्वां तदेदंप्रथममुपगते पुण्यकाले जनौवाः
घाः
पूर्णानन्दा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि ॥ ५ ॥
 
-
 

 
पूर्णमिति । पूर्णं सर्वा गतम् । अतस्तत्रैवैव सर्वशरीरेषु जीवरूपेणावस्था-

नादू आत्मनि च सर्वेशंषां निरतिशय स्नेहबहुमानादिसम्भवात् त्वयीदमुपपद्यत इति

भावः । नन्वेकस्याेयानेकत्राव स्थानं कथमित्यत्राह--ब्रह्मेति । आकाशवद् बृहत्त्वा-

देवेत्यर्थः । ननु ब्रह्मगःणः कथं चाक्षुषत तत्राह - --साक्षाद् गोपेषु व्यलासीरिति ।

श्रीकृष्णात्मनावतीर्णत्वादित्यर्थः । ननु शरीरपरिग्रहश्चेद् ममापि संसारप्रङ्ग इत्य-

त्राह--निरवधिपरमानन्दसान्द्रप्रकाशमिति । निरवधि नित्यं परमानन्दरूपं

सान्द्रप्रकाशं विज्ञाननम् । तत्र नित्यत्वात् जननमरणासम्भवः, परमानन्दरूप -

त्वाद् दुःखाभावः, विज्ञानघनत्वादज्ञानाभावश्चेति संसारनिदानाभावान्नोक्तदोष

इति भावः । कथं तर्हि कंसादयो मां ब्रह्मतया न जानन्तीत्यत आह - न
--न
खल्विति । यैःकैाकौश्चज्जन्म जन्मान्तरार्जितपुण्यपरिपाकवद्भिरेव त्वं ब्रह्मेत्यावेदितो-

भूरित्यर्थः । ननु तर्हि पारिपिष्ठानां कथं मद्दर्शनं संबोभवीतीति चेत्, सत्यं, पुण्य-

पापयो: पुण्याधिक्ये सति तत्परिपाकत्रशेन त्वद्दर्शनसुखं तावत् सम्भवति । तत-

स्त्वद्दर्शनस्मरणचरित्रवर्णनादेदिना विगतपापाः सन्तः क्रमादेतेऽपि त्वत्तत्त्वज्ञानेऽधि-

क्रियन्त एवेत्यभिप्रायेणाह- -दृष्ट्वाथ त्वामिति । जनौषाः शाघाः ज्ञानिनोऽज्ञानिनश्च त्यां
 
-
 
वां