This page has not been fully proofread.

दशकम् - ७५]
 
भगवतो मलुरङ्गप्रवेशवर्णनम् ।
 
केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्य
व्याहत्याली यथास्त्वं चरणयुवि पुनर्निर्गतो वल्गुहासी ॥ २ ॥
 
२१५
 
पापिष्ठेति । हे पाधिष्ठ! अतिशयेन दुष्ट! मार्गाद् द्रुततरम् अपेहि अपसर
इति त्वद्वचसा निष्ठुरा खतः क्रूरा क्रुद्धा च बुद्धिर्यःय तत्याम्बष्ठस्य महामात्रस्य
प्रणोदात् चोदनया । केलीमुक्तः क्रीडया हत्तिकराद् विगलितः अथ अनन्तरं
गोपीकुचकलशचिरस्पर्धिनम्, अत एव तत्साम्यापादकपुण्येन भगवत्करस्पर्शलाभः,
अस्य कुम्भं मस्तकं व्याहत्य हस्तेन ताडयित्वा चरणभुवि चरणचतुष्टयमध्ये
लीलयालीयथाः ॥ २ ॥
 
हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन् गजेन्द्रं
क्रीडन्नापत्य भूमौ पुनरभिपततस्तस्य दन्तं सजीवम् ।
मूलादुन्मूल्य तन्मूलगम हितमहामौक्तिकान्यात्ममित्रे
प्रादास्त्वं हार मेभिर्ललितविरचितं राधिकायै दिशेति ॥ ३ ॥
 
हस्तेति । हस्तेन गुण्डया प्राप्यः स्पृश्यमानोऽप्यगम्योऽम्पृश्यमानो यथा
भवति तथा झटिति धावन् क्रीडन् भूमौ स्वयमापत्य दण्डवत् पतित्वा पुनः
पश्चादभिपततो दन्ताभ्यां भूमौ नतस्तस्य सजीवं जीवेन सह दन्तं मूलादखण्ड-
मुन्मूल्य तन्मूलगानि दन्तमूलस्थानि महितानि परार्ध्यानि महान्ति स्थूलानि
मौक्तिकान्यात्मभित्रे श्रीशान प्रादाः एमिलीले विचितं मनोहरतया रचितं हारं
मालां राधिकायै मत्प्रेयस्यै दिश प्रदेहीति वचनपूर्वकम् ॥ ३ ॥
 
गृह्णानं दन्तमंसे युतमथ हलिना रङ्गमङ्गाविशन्तं
 
त्वां मङ्गल्याङभीरभसहुतमनोलोचना वीक्ष्य लोकाः ।
हो धन्यो नुं नन्दो नहि नहि पशुपालाना को यशोदा
नो नो धन्येक्षणाः स्मखिजगति वयमेवेति सर्वे शशंतुः ॥ ४ ॥
 
गृह्णानमिति । अङ्ग! हे श्रीकृष्ण ! इतरदन्तमंसे गृह्णानेन हलिना युतं
१. 'ध्येऽलीय' क. ख. पाठ: २. 'हि' इति मूलपाठ::