This page has been fully proofread once and needs a second look.

दशकम् - ७५]
 
भगवतो मलुरङ्गप्रवेशवर्णनम् ।
 
केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्य

व्याहत्याली यथास्त्वं चरणयुभुवि पुनर्निर्गतो वल्गुहासी ॥ २ ॥
 
२१५
 

 
पापिष्ठेति । हे पाधिपिष्ठ! अतिशयेन दुष्ट! मार्गाद् द्रुततरम् अपेहि अपसर

इति त्वद्वचसा निष्ठुरा स्वतः क्रूरा क्रुद्धा च बुद्धिर्यःयस्य तत्याम्बष्ठस्य महामात्रस्य

प्रणोदात् चोदनया । केलीमुक्तः क्रीडया हत्स्तिकराद् विगलितः अथ अनन्तरं

गोपीकुचकलशचिरस्पर्धिनम्, अत एव तत्साम्यापादकपुण्येन भगवत्करस्पर्शलाभः,

अस्य कुम्भं मस्तकं व्याहत्य हस्तेन ताडयित्वा चरणभुवि चरणचतुष्टयमध्ये
[^१]
लीलयालीयथाः ॥ २ ॥
 

 
हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन् गजेन्द्रं

क्रीडन्नापत्य भूमौ पुनरभिपततस्तस्य दन्तं सजीवम् ।

मूलादुन्मूल्य तन्मूलगम हितमहामौक्तिकान्यात्ममित्रे

प्रादास्त्वं हार मेभिर्ललितविरचितं राधिकायै दिशेति ॥ ३ ॥
 

 
हस्तेति । हस्तेन गुशुण्डया प्राप्यः स्पृश्यमानोऽप्यगम्योऽम्स्पृश्यमानो यथा

भवति तथा झटिति धावन् क्रीडन् भूमौ स्वयमापत्य दण्डवत् पतित्वा पुनः

पश्चादभिपततो दन्ताभ्यां भूमौ घ्नतस्तस्य सजीवं जीवेन सह दन्तं मूलादखण्ड-

मुन्मूल्य तन्मूलगानि दन्तमूलस्थानि महितानि परार्ध्यानि महान्ति स्थूलानि

मौक्तिकान्यात्मभित्रे श्रीशानदाम्नि प्रादाः एमिलीले भिर्ललित<flag>विचितं</flag> मनोहरतया रचितं हारं

मालां राधिकायै मत्प्रेयस्यै दिश प्रदेहीति वचनपूर्वकम् ॥ ३ ॥
 

 
गृह्णानं दन्तमंसे युतमथ हलिना रङ्गमङ्गाविशन्तं
 

त्वां मङ्गल्याङभीङ्गभङ्गीरभसहुहृतमनोलोचना वीक्ष्य लोकाः ।

हं
हो धन्यो नुंनु[^२] नन्दो नहि नहि पशुपालाना कोनो यशोदा

नो नो धन्येक्षणाः स्मखिस्त्रिजगति वयमेवेति सर्वे शशंतुःसुः ॥ ४ ॥
 

 
गृह्णानमिति । अङ्ग! हे श्रीकृष्ण ! इतरदन्तमंसे गृह्णानेन हलिना युतं

 
[^
]. 'ध्येऽलीय' क. ख. पाठ: ठः
[^
]. 'हि' इति मूलपाठ::
 
ठः