This page has not been fully proofread.

1
 
नारायणीये
 
[स्कन्धः - १
 
शस्यातिस्वच्छतया चैतन्यपरिच्छेदकत्वाभावात् तन्मये लीलाविग्रहेऽहंममाभिमा-

नासम्भवात् तन्निबन्धनस्य संसारस्यापि भगवत्यसम्भव एवेति । ननु शरीरसम्बन्धे

समानेऽप्येकः संसरत्यन्यः संसारयतीति कुत एतद् वैषम्यमिति शङ्कां परिहरन्

भगवन्तं सम्बोधयति – ए--स्वमहिमविभवाकुण्ठेति । स्वस्थ महिमा योगैश्वर्ये, स

एव विभवः शक्तिः, तेनाकुण्ठ: अप्रतिहतचिच्छक्तिरित्यर्थः । अयमाशयः-
-
जीबो मायापरतन्त्रः संसरति, ईश्वरस्तु स्वाधीनया माययाङ्गीकृतलीलाविग्रहः सन्

सर्गादिलीलःलाः[^१] करोतीति महदिदं वैषम्यम् ॥ ५ ॥
 
१२
 

 
सम्प्रति भगवन्मूर्तःतेः सौन्दर्यं वर्णयति द्वाभ्यां ---
 
--
 
तत्ते प्रत्यग्रधाराधरललितकलाया वलीकेलिकारं

लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम् ।

लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दसन्दोहमन्तः

सिञ्चत् सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ ! ॥ ६ ॥
 

 
तदिति । हे मारुतागारनाथ ! ते तत् शुद्धसत्त्वमयं वपुः अनुकलये स्म-

रामीत्यर्थः । प्रत्यग्रेति सजलजलधरवत् प्रतिनवकलायकुसुमवच्चातिमनोहरं, श्याम-
लै

ल[^२]
मित्यर्थः । लावण्यस्यैकसारनिति लावण्यद्रव्यस्य केवलसारांशेनैव विरचितमि-

त्यर्थः । सुकृतिजनदृशां पूर्णपुण्यावतारमिति । अत्र फलाभिसन्धिरहितानि विहित
-
सकलकर्माणि सुकृतान्युच्यन्ते, तदनुष्ठातारः सुकृतिजनाः, तेषां दृशां पूर्णस्य

निश्शेषस्य पुण्यस्यावतारः (तं), सुकृतिजनानां चक्षुरिन्द्रियैरनुभवनीयं[^३] पुण्यपूर-

मेव भगवन्मूर्त्याकारेण परिणतमित्यर्थः । अपिच लक्ष्म्याः प्रेमप्रतिपत्तिविस्रम्भा-

द्येक विषयतया निश्शङ्कलीलानिलयनम् । किञ्च सञ्चिन्तकानाम् उपासकानाम्

अन्तः हृदये अमृतस्यन्दसन्दोहं ब्रह्मानन्दामृतद्रवझरीरीं सिञ्चद्, उपासकानां

हृदयं ब्रह्मानन्दामृतद्रवेणाप्लाव्य सकलसन्तापं शमयतीत्यर्थः ॥ ६ ॥
 

 
कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजा-

मित्येवं पूर्व<flag>?</flag>लोचितमजित ! मया नैवमद्याथिभिजाने ।
 

 
[^
]. 'लां क' ख. पाठः .
[^
]. 'लम् । ला' ख. पाठः, .
[^
]. 'यपु' क. पाठः,
 
.