This page has not been fully proofread.

नारायणी ये
 
शिष्टैर्दुरजनैश्च दृष्टमहिमा मीत्या च भीत्या ततः
संपश्यन् पुरसम्पई विवरन् सायं गतो वाटिकाम् ।
श्रीदाम्ना सह राधिकाविरहजं खेदं वदन् स्वप
नानन्दन्नवतारकार्यघटना वातेश! संरक्ष माम् ॥ १० ॥
 
२५४
 
शिटैरिति । विष्ठैः सज्जनैः प्रीया दृटो महिमा अद्भुतपराक्रमो यस्य ।
दुष्टजनैः भीत्या दृष्टमहिमा सन् सायं सन्ध्यायां वाटिकां शकटस्थानं गतः श्रीदा-
म्नाप्तेन गोपेन । अवतारकार्यघटनात् कंसे हते तच्छ्रस्य मागवस्य परिभवात्
तस्य तद्वन्चूनांगलादीनां च वयो भात्री यादिविन्तया भूमारहरगनिर्वाहद-
र्शनादानन्दन् ॥ १० ॥
 
इति भगवतो मथुरापुरीप्रवेश रजकनिग्रह-वायकमालाकार-
कुब्जानुग्रह धनुर्भङ्गादिवर्णनं
चतुरुलततितमं दशकम् ।
 
[स्कन्धः - १.
 
प्रातः सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते महतूर्ये
सङ्गे राज्ञां च मञ्चानभिषि गते नन्दगोपेऽपि हर्म्यम् ।
कंसे सौधाधिरूढे त्वमपि सहवल: सानुगारुपो
रङ्गद्वारं ग..ोऽभूः कुपितकुवलयापीडनागावलीढम् ॥ १ ॥
 
प्रातरिति । अपरेः प्रातः सन्त्रस्तस्य देवक्या अष्टमपुत्रतया अतिमानु-
षेण पराक्रमे ग चायं मां र्हनिष्यतीति भीतग्य (कंसन्य) वचसा आज्ञया मल्लतूर्ये मल्ल-
क्रीडानुसारिवाद्यप्रयोगे प्रस्तुते आरब्धे सति । अभिययुषि आरूढे च सति । महा-
मात्रप्रणोदात् कुपितेन कुवलयापीडाख्येन नागेन अवलीढं विनितप्रवेशं मल्लरङ्ग-
द्वारं गतोऽभूः ॥ १ ॥
 
पापिष्ठापेहि मार्गार द्रुतमिति निरक्रुद्धबुद्धे-
रम्वष्टस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः ।
 
१. 'वधिष्य' ख. पाठ:.