This page has been fully proofread once and needs a second look.

नारायणी ये
 
शिष्टैर्दुष्टजनैश्च दृष्टमहिमा मीप्रीत्या च भीत्या ततः

संपश्यन् पुरसम्पदं प्रविवरन् सायं गतो वाटिकाम् ।

श्रीदाम्ना सह राधिकाविरहजं खेदं वदन् प्रस्वप
-
न्
नानन्दन्नवतारकार्यघटनाद् वातेश! संरक्ष माम् ॥ १० ॥
 
२५४
 

 
शिष्टैरिति । विशिष्ठैः सज्जनैः प्रीत्या दृष्टो महिमा अद्भुतपराक्रमो यस्य ।

दुष्टजनैः भीत्या दृष्टमहिमा सन् सायं सन्ध्यायां वाटिकां शकटस्थानं गतः श्रीदा-

म्नाप्तेन गोपेन । अवतारकार्यघटनात् कंसे हते तच्छ्वशुरस्य मागस्य परिभवात्

तस्य तद्वन्चूबन्धूनां शिशुपालादीनां च वयोधो भात्री <flag>वीत्यादिविन्तचिन्त</flag>या भूमारहरनिर्वाहद-

र्शनादानन्दन् ॥ १० ॥
 

 
इति भगवतो मथुरापुरीप्रवेश -रजकनिग्रह-वायकमालाकार-

कुब्जानुग्रह धनुर्भङ्गादिवर्णनं

 
चतुरुलस्सप्ततितमं दशकम् ।
 
[स्कन्धः - १.
 

 
प्रातः सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्ये

सङ्गेघे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यम् ।

कंसे सौधाधिरूढे त्वमपि सहल: सानुगागश्चारुपो
वेषो
रङ्गद्वारं ग..ो<flag>तो</flag>ऽभूः कुपितकुवलयापीडनागावलीढम् ॥ १ ॥
 

 
प्रातरिति । अप<flag>रेः</flag> प्रातः सन्त्रस्तस्य देवक्या अष्टमपुत्रतया अतिमानु-

षेण पराक्रमे चायं मां र्हह[^१]निष्यतीति भीतग्स्य (कंसन्स्य) वचसा आज्ञया मल्लतूर्ये मल्ल-

क्रीडानुसारिवाद्यप्रयोगे प्रस्तुते आरब्धे सति । अभिययुषि आरूढे च सति । महा-

मात्रप्रणोदात् कुपितेन कुवलयापीडाख्येन नागेन अवलीढं विघ्नितप्रवेशं मल्लरङ्ग-

द्वारं गतोऽभूः ॥ १ ॥
 

 
पापिष्ठापेहि मार्गाद् द्रुतमिति वचसा नि<flag>सु</flag>रक्रुद्धबुद्धे-

रम्वष्टस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः ।
 

 
[^
]. 'वधिष्य' ख. पाठ:.
 
ठः