This page has not been fully proofread.

दर्शकम् – ७४]
 
धनुश्शालायां धनुर्भङ्गादिवर्णनम् ।
 
२५३
 
दूराद् निरीक्षिता
 
गतिर्यस्य स त्वं गोपुरं प्राविशः प्रष्टिन् । आघोषेण
त्वदर्शनादिप्रवृत्त गैरज नजनितेनानुमितः कल्पितो यस्त्वदा नमः तज्जनितेन महता
हर्षेण उल्ललतः क्षुभिताद् देवकीवक्षोजाद् यः पयोरसः प्रजगाल, तथ्याजेन
त्वत्कीर्तिस्त्वत्प्रवेशात् पूर्वमन्तर्गता नगरं प्रविष्टा ॥ ७ ॥
 
आविष्टो नगरीं महोत्सववत कोदण्डशालां व्रजन्
माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तान्तरः ।
स्रग्भिभूषितमर्चितं वरधनुर्मा मेति वादात् पुरः
 
प्रागृहाः समरोपयः किल समाक्राक्षीरभाङ्क्षीरपि ॥ ८ ॥
 
आविष्ट इति । माधुर्येण वा श्रीमूर्तेर्वा मधुरतया तेजता अश्रृप्यतया वा
प्रतिषेद्भुमशक्यतया रक्षिपुरुषैरेण दत्तान्तरः परिहृतमार्गः सन् मा मा धनुः
स्पृशेति वादाद् रक्षिपुरुषवचनात् पुरः पूर्वमेव धनुः प्रागृह्णाः अग्रहीः । पुनरपि
मा मा समारोपयेति वादात् पुरः समरोपयः । एवं मा मा आकर्षयेति वादात्
पुरः समाक्राक्षीः । मा मा भाङ्गीरिति वादात् पुरः अभाङ्क्षीरपि ॥ ८ ॥
 
श्वः कंसक्षपणोत्सवस्य पुरतः प्रारम्भतूर्योपम
श्रापध्वंसमहाध्वनिस्तव विभो ! देवानरोमाञ्चयत् ।
कंसस्यापि च वेपथुस्तदुदितः कोदण्डखण्डद्वयी-
चण्डाभ्याहतरक्षिपूरुपरखैरुत्कूलितोऽभूत् त्वया ॥ ९ ॥
 
श्व इति। कंसक्षपणं कंसवधनामोत्सवो भावो । तस्य पुरतः पूर्व मङ्गलार्थः
प्रारम्भतूर्यरवः कर्तव्यः । तत्पशन्तव चापध्वसमहाध्वनिर्देवानरोमाञ्चयत् कंस-
मपि • बधिप्यतीति रोमाञ्चितशरीरानकृत । कंसस्यापि तदुर्दितः चापध्वसैमहाध्व-
निश्रवणाज्जातो वेपथुः कम्पः तस्यैव कोदण्डस्य खण्डद्वय्या चण्डाभ्याहतानां
सुदृढ प्रहृतानां रक्षिपूरुषाणां रवैः धिग घिग् हा हताः स्म इति विलपनरूपैः
त्वया उत्कूलितो वर्धितोऽभूत् ॥ ९ ॥
 
१. 'पूर्व स क. पाठ:. २. 'सध्व क. ग. पाठः,
 
* 'वधिः प्रकृत्यन्तरं व्यञ्जनान्तोऽस्ति' इति 'जनिवध्योश्च' (७. ३. ३५) इति सूत्रे वृत्ति-
कारः ।