This page has been fully proofread once and needs a second look.

दर्शकम् – ७४]
 
धनुश्शालायां धनुर्भङ्गादिवर्णनम् ।
 
२५३
 
दूराद् निरीक्षिता
 
गतिर्यस्य स त्वं गोपुरं प्राविशः प्रविष्टिटवान् । आघोषेण
त्व

त्वद्
दर्शनादिप्रवृत्त गैपौरज नजनितेनानुमितः कल्पितो यस्त्वदामः तज्जनितेन महता

हर्षेण उल्ललतः क्षुभिताद् देवकीवक्षोजाद् यः पयोरसः प्रजगाल, तथ्द्व्याजेन

त्वत्कीर्तिस्त्वत्प्रवेशात् पूर्वमन्तर्गता नगरं प्रविष्टा ॥ ७ ॥
 

 
आविष्टो नगरीं महोत्सववतीं कोदण्डशालां व्रजन्

माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तान्तरः ।

स्रग्भिर्भूषितमर्चितं वरधनुर्मा <flag> </flag>मेति वादात् पुरः
 

प्रागृहाःह्णाः समरोपयः किल समाक्राक्षीरभाङ्क्षीरपि ॥ ८ ॥
 

 
आविष्ट इति । माधुर्येण वा श्रीमूर्तेर्वा मधुरतया तेजतासाश्रृधृप्यतया वा

प्रतिषेद्भुधुमशक्यतया रक्षिपुरुषैर्दूरेण दत्तान्तरः परिहृतमार्गः सन् मा मा धनुः

स्पृशेति वादाद् रक्षिपुरुषवचनात् पुरः पूर्वमेव धनुः प्रागृह्णाः अग्रहीः । पुनरपि

मा मा समारोपयेति वादात् पुरः समरोपयः । एवं मा मा आकर्षयेति वादात्
पु

पु[^१]
रः समाक्राक्षीः । मा मा भाङ्गीक्षीरिति वादात् पुरः अभाङ्क्षीरपि ॥ ८ ॥
 

 
श्वः कंसक्षपणोत्सवस्य पुरतः प्रारम्भतूर्योपम

श्राचापध्वंसमहाध्वनिस्तव विभो ! देवानरोमाञ्चयत् ।

कंसस्यापि च वेपथुस्तदुदितः कोदण्डखण्डद्वयी-

चण्डाभ्याहतरक्षिपूरुपरखैषरवैरुत्कूलितोऽभूत् त्वया ॥ ९ ॥
 

 
श्व इति। कंसक्षपणं कंसवधनामोत्सवो भावोवी । तस्य पुरतः पूर्वं मङ्गलार्थः

प्रारम्भतूर्यरवः कर्तव्यः । तत्पदृशन्तव चापध्वंसमहाध्वनिर्देवानरोमाञ्चयत् कंस-

मपि *बधिप्ष्यतीति रोमाञ्चितशरीरानकृत । कंसस्यापि तदुर्दितः चापध्वसैवंस[^२]महाध्व-

निश्रवणाज्जातो वेपथुः कम्पः तस्यैव कोदण्डस्य खण्डद्वय्या चण्डाभ्याहतानां

सुदृढ प्रहृतानां रक्षिपूरुषाणां रवैः धिग घिग् हा हताः स्म इति विलपनरूपैः

त्वया उत्कूलितो वर्धितोऽभूत् ॥ ९ ॥
 

 
[^
]. 'पूर्व सवे स' क. पाठ:ठः
[^२]
. २. 'सध्व' क. ग. पाठः,
 

 
[^
*] 'वधिः प्रकृत्यन्तरं व्यञ्जनान्तोऽस्ति' इति 'जनिवध्योश्च' (७. ३. ३५) इति सूत्रे वृत्ति-

कारः ।