This page has not been fully proofread.

रजकनिग्रहवायकमालाकारानुग्रहवर्णनम् ।
 
त्वत्पादेति । तिः सरगा रतार्गाभवाच
 
स्त्रियोऽपि सरागाः बहुगात् त्वयि चिरंगा अद्
र्शनार्थं सम्प्राप्ताः । त्वन्मूर्तिः विलसत्यधरक्तजवजलधरावला । तद्वन् ता
अपि विलसत्पयोधररुचः आगमनसम्भ्रमात् चालतकुचाः । इतस्ततः सम्प्राप्तयोषि
द्दर्शनव्याटततया लोला चञ्चला भवदृष्टिः । तद्वत् ता अनि लोलाः भवदर्शनको-
तुकयुक्ताः । हाराः सन्त्यस्यामिति हारिणी उत्स्थली । मनोहारिग्यथ ताः ।
आय भगवन्! ते तब सन्दत्मितप्रौढिः मन्द िमतस्य पाँढिः उदारता सा नैर्म-
ल्योल्लसिता । ता आपे नै ल्योल्लतिताः स्वच्छ शरीराः शुद्धतश्च । चौ
घरुचिः राजत्कलापाश्रिता बलङ्कृता । अन्यत्र कलाना भूषण नि । सर्वाभरण-
भूषिता इत्यर्थः ॥ २ ॥
 
दशकम् – ७४]
 
तासामाकलयन्नपाङ्गवलनमोद महर्षाभुत-
व्यालोलेषु जनेषु तत्र रजकं कश्चित् पढ़ीं प्रार्थयन् ।
कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः
सद्यस्तस्य करेण शीर्षमहथा: सोऽप्याप पुण्यां गतिम् ॥ ३ ॥
 
२५१
 
तासामिति । अपाङ्गवलनैः कटाक्षवीक्षणैः तासां मोइमाकलयन् प्राप-
यत् जनेषु प्रहर्षाददुताच व्यागतेषु । पढ़ीं बाजांति । पुषां गतिं
मोक्षम् ॥ ३ ॥
 
भूयो वायकमेकमायतमतिं तोषेण वेषोचितं
 
दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनाम् ।
मालाभिः स्तवकैः स्तवैरपि पुनर्मालाकृता मानितो
भक्ति तेन वृतां दिदेशिथ परां लक्ष्मी च लक्ष्मीपते ! ॥ ४ ॥
 
भूय इति । वायकं तन्तुवायम् एकं भगवत्प्रसादपात्रम् आयतमति
विपुलमनसं वेषोचितं विचित्रवर्णदुकूलादिकं दाधांनं दतवन्तं स्वपदं सारूप्यं
निनेथ अनयः । सुकृतं को वेद, केवलं फलानुनेयमिति भावः । स्तबकैः पुष्पैः
स्तवः स्तोत्रैश्च मालां करोतीति मालाकृत् तेन मानितः पूजितः । परां प्रेमलक्षणां
भक्ति दिदेशिथ दत्तवान् ॥ ४ ॥