This page has not been fully proofread.

२५०
 
नारायणी ये
 
[स्कन्ध:- १०
 
हर्षतिःधोरनुवृत्या परमानन्दानुभवानिवृत्तेः पुलकावृतस्त्वां ययौं उन्मज्ज्य त्वत्स-
मीमाय ॥ ९ ॥
 
किमु शीतलिमा महान जले यत् पुलकोऽसाविति चोदितेन तेन ।
अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश! पाहि मां त्वम् ॥ १० ॥
किम्विति । अतिहर्षनिरुत्तरेण भगवतः स्वरूपदर्शनेनानन्दबाप्पनिरुद्ध -
कण्ठतया अदत्तोत्तरेण ॥ १० ॥
 
त्याह
 
इति भगवतो मथुराप्रस्थानवर्णनं यमुनाजले अक्रूरस्य
भगवत्स्वरूप साक्षात्कारादिवर्णनं च
त्रिसप्ततितमं दशकम्
 
सम्माप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन् वस-
नारामे विहिताशनः सखिजनैयतः पुरीमीक्षितुम् ।
मापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल-
स्त्रीपुंसोधगण्य पुण्य निगराष्मणो नु किम् ॥ १ ॥
सम्याप्त इति । दिनार्धविगमे मध्य हे तत्र मथुरायाम् अन्तरस्मिन्नारामे
बाह्योद्याते वसन् राजपथं राजमार्ग प्रापः प्राप्तवान् । चिरश्रुत्या धृतं व्यालोककौ-
गृहलं येषां तेभ्यः स्त्रीपुंसेभ्यः उद्यन्ति फलोन्मुखानि अगव्यानि अपरिमेयानि
पुण्यान्येव निगलाः शृङ्खलाः तैराकृप्यमाणः किन्नु ॥ १ ॥
 
तत्र कथमपि त्वत्सादृश्यानुमेयसुकृता मथुरास्त्रियस्त्वदर्शनसुखमन्वभूवान्न-
-
 
.
 
त्वत्पाद तिवत् सरागसुभगास्त्वन्मृतिवद् योषितः
सम्प्राप्ता विलसत्पयोधररुचो लोला भवदष्टिवत् ।
हारिण्यस्त्वदुरस्स्थलीवदाय ते मन्दस्मितमौढिव-
नैर्मल्योल्हसिताः कचौधरुचिवद् राजत्कलापाश्रिताः ॥ २ ॥
 
१. 'तो' इ. च. पाठः,