This page has not been fully proofread.

Leकन्व:-१०
 
निशमय्य तवाथ यानवार्ता भृशमार्ताः पशुपालवालिकास्ताः ।
किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥ १ ॥
 
निरामय्येति । यानवार्ती श्वः प्रभाते श्रीकृष्णं नेतुमागतोऽक्रूर इत्येवंरू-
पाम् । किमिदम् अमृतास्वादे विषयानमिवातिकष्टमवस्थान्तरमापतितम् । कथं
न्विदम् अस्मद्भाग्यदोपाद् नन्दसूनोर्निष्करुणतया वा इत्येवमादीनि परिदेवितानि
विलपनान्यकुर्वन् ॥ १ ॥
 
परिदेवितान्येवाह—
 
करुणानिधिरेष नन्दसूनुः कथमस्मान् विसृजेदनन्यनाथाः ।
बत नः किमु दैवमेवमासीदिति तास्त्वद्गत मानसा विलेपुः ॥ २ ॥
 
करुणेति । नो दैवं भाग्यम् एवं निरतिशयसुखप्रदं सहसा नष्टं चासीत्
किमु बत खिद्यामहे ॥ २ ॥
 
चरममहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च ।
परितापभरं नितम्विनीनां शमयिष्यन् व्यमुचः सखायमेकम् ॥ ३ ॥
 
चरमेति । चरमप्रहरे अन्त्ययामे प्रतिष्ठमानो निर्गच्छन् एकं सखायमाप्तं
दूततया व्यमुचः प्रेषितवान् ॥ ३ ॥
 
अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः ।
अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥ ४ ॥
 
अचिरादिति । वो युष्माकं मया सङ्गमश्रीः संभोगसौख्यम् अचिराद्
भवितैव । किञ्च अमृताम्बुनिधौ सुखार्णवे, अथवा अमृतं मोक्षस्तद्रूपेऽम्बुनिधौ ।
अन्ते मोक्षमपि वो वितरिप्यामीत्यर्थः ॥ ४ ॥
 
सविषादभरं सयाच्ञमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः ।
मृदु तद्दिशि पातयन्नपाङ्गान् सबलोऽक्रूररथेन निर्गतोऽभूः ॥ ५ ॥
१. 'माहूय दु' ख. पाठः,