This page has been fully proofread once and needs a second look.

Leकन्व:-१०
 
निशमय्य तवाथ यानवार्तातां भृशमार्ताः पशुपालवालिकास्ताः ।

किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥ १ ॥
 

 
निरामय्येति । यानवार्तीतां श्वः प्रभाते श्रीकृष्णं नेतुमागतोऽक्रूर इत्येवंरू-

पाम् । किमिदम् अमृतास्वादे विषयानमिवातिकष्टमवस्थान्तरमापतितम् । कथं

न्विदम् अस्मद्भाग्यदोपाषाद् नन्दसूनोर्निष्करुणतया वा इत्येवमादीनि परिदेवितानि

विलपनान्यकुर्वन् ॥ १ ॥
 

 
परिदेवितान्येवाह
 
--
 
करुणानिधिरेष नन्दसूनुः कथमस्मान् विसृजेदनन्यनाथाः ।

बत नः किमु दैवमेवमासीदिति तास्त्वद्गत मानसा विलेपुः ॥ २ ॥
 

 
करुणेति । नो दैवं भाग्यम् एवं निरतिशयसुखप्रदं सहसा नष्टं चासीत्

किमु बत खिद्यामहे ॥ २ ॥
 

 
चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च ।

परितापभरं नितम्विबिनीनां शमयिष्यन् व्यमुचः सखायमेकम् ॥ ३ ॥
 

 
चरमेति । चरमप्रहरे अन्त्ययामे प्रतिष्ठमानो निर्गच्छन् एकं सखायमा[^१]प्तं

दूततया व्यमुचः प्रेषितवान् ॥ ३ ॥
 

 
अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः ।

अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥ ४ ॥
 

 
अचिरादिति । वो युष्माकं मया सङ्गमश्रीः संभोगसौख्यम् अचिराद्

भवितैव । किञ्च अमृताम्बुनिधौ सुखार्णवे, अथवा अमृतं मोक्षस्तद्रूपेऽम्बुनिधौ ।

अन्ते मोक्षमपि वो वितरिप्ष्यामीत्यर्थः ॥ ४ ॥
 

 
सविषादभरं सयाच्ञमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः ।

मृदु तद्दिशि पातयन्नपाङ्गान् सबलोऽक्रूररथेन निर्गतोऽभूः ॥ ५ ॥

 
[^
]. 'माहूय <flag>दु</flag>' ख. पाठः,