This page has been fully proofread once and needs a second look.

my
 
दशकम् - ७२]
 
अक्रूरस्य भगवत्कृतसत्कारादिवर्णनम् ।
 
२४७
 
सायन्तनेति । सायन्तनः सन्ध्यासमयस्थ: आप्लव: आकण्ठं स्नानं तेन

विशेषेण विविक्तगात्रौ स्वच्छदेहौ नातिप्रपञ्चम् अनतिबहुलं यथा तथा धृतैः

भूषणैः चारुर्मनोहरो वेषोऽङ्क्रियाविशेषो ययोः ॥ ९ ॥
 

 
दूराद् रथात् समवरुह्य नमन्तमेन-

मुत्थाप्य भक्तकुलमौलिमथोपगूहन् ।

हर्षान्मिताक्षरगिरा कुशलानुयोगी
 

पाणिणिं प्रगृह्य सबलोऽथ गृहं निनेथ ॥ १० ॥
 

 
दूरादिति । हर्षादुपगूहन् मिताक्षरया गिरा कुशलानुयोगी कुशलं पृच्छन्

गृहं निनेथ प्रवेशयामासिथ ॥ १० ॥
 

 
नन्देन साकममितादरमर्चयित्वा
 

तं यादवं तदुदितां निशमय्य वार्ताम् ।

गोपेषु भूपतिनिदेशकथां निवेद्य
 

नानाकथाभिरिह तेन निशामनैषीः ॥ ११ ॥
 

 
नन्देनेति । भूपतिनिदेशकथां कंसाज्ञावचनं निवेद्य उपायनसंभारसंभृत-

शकटसंयोजनाद्यादिश्य तेनाक्रूरेण सह नानाकथाभिः निशामनैषीः ॥ ११ ॥
 

 
तस्यां निशायां श्रीकृष्णे गोपीनामन्यासक्तिशङ्काभूदित्याह-
-
 
चन्द्रागृहे किमुत चन्द्रभगागृहे नु

राधागृहे नु भवने किमु मैत्रविन्दे ।

धूर्त्तो विलम्बत इति प्रमदाभिरुच्चै -
 
"राश
-
राश[^१]
ङ्कितो निशि मरुत्पुरनाथ! पायाः ॥ १२ ॥
 

 
इति अक्रूरस्य गोकुलयात्रा-वृबृन्दावनप्राप्ति-भगवत्समागम-

भगवत्कृतसत्कारादीनां वर्णनं
 

 
द्विसप्ततितमं दशकं सद्विकम् ।
 

 
[^१]
. 'शंसितो' क. पाठः
 
-
 
11/2