This page has not been fully proofread.

नारायणीये
 
सुष्ववेष्टत श्रीकृष्णपादपांसव इति सर्वाङ्गेष्वकरोत् । किं ब्रूमहे । तदा भवतः काले
बहुजना जाताः, तथाप्यक्रूरवदेवं भक्त्या तरलाः परवशाः विरला न्यूनाः ॥ ६ ॥
 
सायं स गोपभवनानि भवच्चरित्र-
गीतामृतप्रसृतकर्ण रसायनानि ।
पश्यन् प्रमोदसरितेव किलोद्यमानो
 
गच्छन् भवद्भवन न्निधिमन्वयासीत् ॥ ७ ॥
 
2
 
सायमिति । सायं सन्ध्याकाले भवञ्च्चरित्रगीतमेवामृतं, तत्प्रसृतममृतनि-
प्यन्दः, तदेव कर्णरसायनं श्रोत्रानन्दकरं येषु तानि गोपभवनानि पश्यन् प्रमोद
रूपया सरिता नद्या उद्यमान इव ॥ ७ ॥
 
तावद् ददर्श पशुदोहविलोकलोलं
भक्तोत्तमागतिमिव प्रतिपालयन्तम् ।
भूमन् ! भवन्तमयमग्रजवन्तमन्त-
र्ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तम् ॥ ८ ॥
 
[स्कन्धः - १०
 
at
 
तावदिति । पशुदोहविलोकने लोलं सश्रद्धं भक्तोत्तमस्याक्रूरस्य आगतिं
प्रतिपालयन्तमिवायमक्रूरो भवन्त ददर्श । ब्रह्मानुभूतिर्ब्रह्मज्ञानं, तज्जन्यो रससिन्धुः
सुखार्णव आनन्दः । पथि श्रीकृष्णाकाराकारितायाश्चित्तवृत्तेः अन्तःस्थत्वाद्
भगवद्दर्शनसमनन्तरं तस्या इन्द्रियद्वारा बहिर्निर्गमनाच्चान्तःस्थं श्रीकृष्णदर्शनसुख
बहिरुद्वमन्तमिवेत्यर्थः ॥ ८ ॥
 
सायन्तनाप्लवविशेषविविक्तगात्रौ
 
द्वौ पीतनीलरुचिराम्बरलोभनीयौ ।
नातिप्रपञ्चधृतभूषणचारुवेषौ
मन्दस्मितार्द्रवदनौ स युवां ददर्श ॥ ९ ॥
 
P
 
* बहिर्भवनानुकूलव्यापार वृत्तेरुद्वमतेरिह बहिर्भावमात्रे वृत्तिनिवृत्तप्रेषणपक्षाश्रयणेन । एवञ्चा-
क्रूरहृदयाद् बहिर्भवन्तं ब्रह्मानुभूतिर साजधुमिव स्थितमिति भगवद्विशेषणमुपपन्नम् । अस्या
एवापपत्तये व्याख्याने 'पथि श्रीकृष्णे' त्या युक्ति: ।