This page has been fully proofread once and needs a second look.

नारायणीये
 
सुष्ववेष्टत श्रीकृष्णपादपांसव इति सर्वाङ्गेष्वकरोत् । किं ब्रूमहे । तदा भवतः काले

बहुजना जाताः, तथाप्यक्रूरवदेवं भक्त्या तरलाः परवशाः विरला न्यूनाः ॥ ६ ॥
 

 
सायं स गोपभवनानि भवच्चरित्र-

गीतामृतप्रसृतकर्ण रसायनानि ।

पश्यन् प्रमोदसरितेव किलोद्ह्यमानो
 

गच्छन् भवद्भवन <flag> </flag>न्निधिमन्वयासीत् ॥ ७ ॥
 
2
 

 
सायमिति । सायं सन्ध्याकाले भवञ्च्चरित्रगीतमेवामृतं, तत्प्रसृतममृतनि-

प्यन्दः, तदेव कर्णरसायनं श्रोत्रानन्दकरं येषु तानि गोपभवनानि पश्यन् प्रमोद
-
रूपया सरिता नद्या उद्ह्यमान इव ॥ ७ ॥
 

 
तावद् ददर्श पशुदोहविलोकलोलं

भक्तोत्तमागतिमिव प्रतिपालयन्तम् ।

भूमन् ! भवन्तमयमग्रजवन्तमन्त-

र्ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तम् [^*] ॥ ८ ॥
 
[स्कन्धः - १०
 
at
 

 
तावदिति । पशुदोहविलोकने लोलं सश्रद्धं भक्तोत्तमस्याक्रूरस्य आगतिं

प्रतिपालयन्तमिवायमक्रूरो भवन्त ददर्श । ब्रह्मानुभूतिर्ब्रह्मज्ञानं, तज्जन्यो रससिन्धुः

सुखार्णव आनन्दः । पथि श्रीकृष्णाकाराकारितायाश्चित्तवृत्तेः अन्तःस्थत्वाद्

भगवद्दर्शनसमनन्तरं तस्या इन्द्रियद्वारा बहिर्निर्गमनाच्चान्तःस्थं श्रीकृष्णदर्शनसु
खं
बहिरुद्वमन्तमिवेत्यर्थः ॥ ८ ॥
 

 
सायन्तनाप्लवविशेषविविक्तगात्रौ
 

द्वौ पीतनीलरुचिराम्बरलोभनीयौ ।

नातिप्रपञ्चधृतभूषणचारुवेषौ

मन्दस्मितार्द्रवदनौ स युवां ददर्श ॥ ९ ॥
 
P
 

 
[^
*] बहिर्भवनानुकूलव्यापार वृत्तेरुद्वमतेरिह बहिर्भावमात्रे वृत्तिर्निवृत्तप्रेषणपक्षाश्रयणेन । एवञ्चा-

क्रूरहृदयाद् बहिर्भवन्तं ब्रह्मानुभूतिर सा<flag></flag>न्धुमिव स्थितमिति भगवद्विशेषणमुपपन्नम् । अस्या

एवापपत्तये व्याख्याने 'पथि श्रीकृष्णे' त्या द्युक्ति: ।