This page has not been fully proofread.

दशकम् - ७२]
 
अक्रूरस्य गोकुलयात्रावर्णनम् ।
 
२४५
 
वभयेन ममाद्य श्रीकृष्णदर्शनं भूयादित दैवं प्रार्थयन् । एवं पथि त्वामेव चिन्त-
यन् नान्यत् किञ्चिदपि व्यजानात् ॥ ३ ॥
 
तदेवाह —
 
द्रक्ष्यामि वेदशतगीतगतिं पुमांसं
 
स्प्रक्ष्यामि किंस्विदपिनाम परिष्वजेय ।
किं वक्ष्यते स खलु मां क नु वीक्षितः स्या-
दित्थं निनाय स भवन्मयमेव मार्गम् ॥ ४ ॥
 
द्रक्ष्यामीति । वेदशतैः उपनिषद्भिः गीता प्रतिपादिता गतिः स्वरूपं
याय तं पुमांसं पुरुषं किंचिद् द्रक्ष्यामि स्प्रक्ष्यामि स्पर्शन पुखमनुभवामि । अपि-
नामैवं भूयात् । स खलु भगवान् मां कृताञ्जलिं 'हे अरेति किं वक्ष्यते । क्व नु
कस्मिन् प्रदेशे मया स वीक्षितः स्यात् । इत्थं भवत्स्मरण नैरन्तर्येण तदालम्बनतया
भवन्मयं मार्ग निनाय अतिक्रान्तवान् ॥ ४ ॥
 
भूयः क्रमादभिविशन् भवदङ्घ्रिपूतं
बृन्दावनं हरविरिञ्चसुराभिवन्द्यम् ।
आनन्दमन इव लग्न इव मोहे
 
किं किं दशान्तरमवाप न पङ्कजाक्ष ! ॥ ५ ॥
 
भूय इति । प्रमोहे लग्नो बहिर्विकाराभावान्मूढ इव किं किं दशान्तरं
 
नावाप ॥ ५ ॥
 
पश्यन्नवन्दत भवद्विवृतिस्थलानि
पांसुष्ववेष्टत भवच्चरणाङ्कितेषु ।
किं ब्रूमहे बहुजना हि तदापि जाता
 
एवं तु भक्तितरला विरलाः परात्मन् ! ॥ ६ ॥
 
पश्यन्निति । भवद्विहृतिस्थलानि क्रीडा स्थानानि अवन्दत । भवच्चरणाङ्कितेषु पां-
१. 'दि' क. पाठ:.