This page has been fully proofread once and needs a second look.

दशकम् - ७२]
 
अक्रूरस्य गोकुलयात्रावर्णनम् ।
 
२४५
 
वभयेन ममाद्य श्रीकृष्णदर्शनं भूयादिति दैवं प्रार्थयन् । एवं पथि त्वामेव चिन्त-

यन् नान्यत् किञ्चिदपि व्यजानात् ॥ ३ ॥
 

 
तदेवाह
 
--
 
द्रक्ष्यामि वेदशतगीतगतिं पुमांसं
 

स्प्रक्ष्यामि किंस्विदपिनाम परिष्वजेय ।

किं वक्ष्यते स खलु मां क्व नु वीक्षितः स्या-

दित्थं निनाय स भवन्मयमेव मार्गम् ॥ ४ ॥
 

 
द्रक्ष्यामीति । वेदशतैः उपनिषद्भिः गीता प्रतिपादिता गतिः स्वरूपं
या

यस्
य तं पुमांसं पुरुषं किंचिद्स्विद् द्रक्ष्यामि द्रक्ष्यामि स्प्रक्ष्यामि स्पर्शन पुमुखमनुभवामि । अपि-

नामैवं भूयात् । स खलु भगवान् मां कृताञ्जलिं 'हे अक्रूरेति किं वक्ष्यते । क्व नु

कस्मिन् प्रदेशे मया स वीक्षितः स्यात् । इत्थं भवत्स्मरण नैरन्तर्येण तदालम्बनतया

भवन्मयं मार्गं निनाय अतिक्रान्तवान् ॥ ४ ॥
 

 
भूयः क्रमादभिविशन् भवदङ्घ्रिपूतं

बृन्दावनं हरविरिञ्चसुराभि[^१]वन्द्यम् ।

आनन्दमग्न इव लग्न इव प्रमोहे
 

किं किं दशान्तरमवाप न पङ्कजाक्ष ! ॥ ५ ॥
 

 
भूय इति । प्रमोहे लग्नो बहिर्विकाराभावान्मूढ इव किं किं दशान्तरं
 

नावाप ॥ ५ ॥
 

 
पश्यन्नवन्दत भवद्विवृहृतिस्थलानि

पांसुष्ववेष्टत भवच्चरणाङ्कितेषु ।

किं ब्रूमहे बहुजना हि तदापि जाता
 

एवं तु भक्तितरला विरलाः परात्मन् ! ॥ ६ ॥
 

 
पश्यन्निति । भवद्विहृतिस्थलानि क्रीडा स्थानानि अवन्दत । भवच्चरणाङ्कितेषु पां-

 
[^
]. 'दि' क. पाठ:.
 
ठः