This page has not been fully proofread.

दशकम् - १]
 
भगवन्महिमानुवर्णनम् ।
 
११
 
यथा तरङ्गाणां कल्लोलादिशब्दवाच्यत्वव्यतिरेकेण सिन्धोर्भेदं नोपलभामहे, एवं शु-
द्धसत्त्वस्यापि ब्रह्मणोऽभेद इति । अत्र प्रमाणमाह - आहुरिति । आचार्या इति शेषः ।
ते ह्याहुः – अथवा चिदानन्दजलनिधेरे कोऽभिनवस्तरङ्ग एव सत्त्वम् इत्यादि । नन्वेवं
शुद्धसत्त्वस्य ब्रह्मानन्यत्वे भगवन्मूर्तेः किमायातं, तत्राह - तदात्मेति । तत् सत्त्वमे-
वात्मा श्रीमूर्त्तिर्यस्य सः । त्वं कस्मान्नो निष्कलः निष्कलं ब्रह्मैव त्वमित्युक्तिर्युक्ति-
मतीत्यर्थः । नन्वेवं तर्हि सकलमूर्तिशब्दोऽनन्यगतेर्निरालम्बः स्यादित्याशङ्कयाह -
सकल इति । त्वत्कलासु अंशावतारेज्वेव सकलशब्दः प्रयुज्यत इति शेषः । हे
भूमन्! परिपूर्ण ! त्वं तु निष्कलब्रह्मैवेत्यर्थः ॥ ४ ॥
 
एवं भगवन्मूर्तेः स्वरूपोत्पत्तिं विमृश्य सम्प्रति तस्या उत्पत्तिं विमृशति-
निर्व्यापारोऽपि निष्कारणमज ! भजसे यत् क्रियामीक्षणाख्यां
तेनैवोदेति लीना प्रकृतिरसतिकल्पापि कल्पादिकाले ।
तस्याः संशुद्धमंश कमपि तमतिरोधायकं सत्त्वरूपं
 
स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ ! वैकुण्ठ ! रूपम् ॥ ५ ॥
निर्व्यापार इति । हे अज! विष्णो ! त्वं निर्व्यापारो निष्क्रियः सन्नपि
ईक्षणाख्यां मायाप्रेरणात्मिकां क्रियां भजसे अङ्गीकरोषि । यथा अयस्कान्तमणि-
र्निष्क्रियोऽपि सन्निधिमात्रेण लोहधातुमाकर्षति, तद्वदित्यर्थः । निष्कारणं निर्गतं
कारणं प्रयोजनं यस्मादिति क्रियाविशेषणम् । तब मायाप्रेरणे कारगमस्मदादिभि-
र्न ज्ञातव्यमिति भावः । एवं त्वमीक्षणाख्यां क्रियां भजस इति यत्, तेनैव कारणेन
लीना द्विपरार्धावसाने त्वयि लयं प्राप्ता प्रकृतिर्माया उदेति प्रकाशते । अत्र ली-
नोदेतिशब्दौ प्रकृतेरुत्पत्तिविनाशाभावं सूचयत इति न तस्या अनादित्वहानिः ।
कदोदेतीत्यत आह - कल्पादिकाल इति । कल्पानां ब्रह्मणो दिनानामादिकाले
आद्यदिनारम्भकाले ब्रह्मप्रलयावसान इत्यर्थः । न तु कल्पस्यादिकाले, तदा प्रकृ
तिलयोदयाभावात् । मायां विशिनष्टि - असतिकल्पेति । प्रायेणासती सदसत्त्वा-
भ्यामनिर्वचनीयेत्यर्थः । हे वैकुण्ठ ! विकुण्ठनिलय । सः मायाप्रेरकस्त्वं तस्या
मायायाः तं पूर्वोक्तं सत्त्वरूपं कमप्यंशं धृत्वा उद्धृत्य रूपं लीलाविग्रहं दधा-
सि भक्तानुग्रहाय गृह्णासि । ननु विग्रहवांश्चेत् संसारप्रसङ्ग इत्याशङ्कयाह-अतिरो-
धायकमिति । तत्र हेतुमाह - संशुद्धमिति । अयं भावः - शुद्धसत्त्वरूपस्य मायां-
१. 'म्।न' ख. पाठः,
 
-