This page has not been fully proofread.

नारायणीये
 
[स्कन्वः - १०
 
एवंविधैरिति । आनन्दस्य मूर्छा वृद्धि पदे पदे अनुक्षणम् असीमं
निरवधि । अत्र हेतुः परात्मरूपीति ॥ १० ॥
 
२४४
 
इति केशिवधवर्णनं व्योमासुरवधवर्णनं च
एकसप्ततितमं दशकम् ।
 
अथ कंसवधमाह दशकचतुष्टयेन-
कंसोऽथ नारदगिरा व्रजवासिनं त्वा-
माकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् ।
आहूय का कमखच्छलतो भवन्त-
मानेतुमेनमहिनोदहिनाथशायिन् ! ॥ १ ॥
 
कंस इति । विष्णुस्त्वद्वधार्थं देवक्यां जातो नन्दबजे वसतीति नारदस्य
गिरा दीर्गहृदयश्चकितमतिः गान्दिनेयम् अक्रूरं कार्मुकमखच्छलतो धनुर्यागनिरी-
क्षणार्थमिति व्याजेन अहिनोत् प्रेषयामास ॥ १ ॥
 
अक्रूर एप भवदपिरश्चिराय
त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या ।
तस्याज्ञयैव पुनरीक्षितुमुग्रतस्त्वा-
मानन्दभारमतिभूरितरं वभार ॥ २ ॥
 
अक्रूर इति । भवदङ्घ्रिपरः भवद्भक्तः क्षितिपालभीत्या कंसभयेन अहं
कृष्णदर्शनाक्षम इति मनो यस्य स त्वदर्शनाक्षममनाः ॥ २ ॥
 
सोऽयं रथेन सुकृती भवतो निवासं
 
गच्छन् मनोरथगणांस्त्वयि धार्यमाणान् ।
आस्वादयन् मुहुरपायभयेन दैवं
 
संप्रार्थयन् पथि न किञ्चिदपि व्यजानात् ॥ ३ ॥
 
स इति । त्वयित्वद्विषये मनोरथग गान् दर्शनस्पर्शनादिरूपानं मनसा
धार्यमाणान् आस्वादयन् अपायभयेन स्वस्य कंसभृत्यतादिहेतुकेन भगवद्दर्शनाभा