This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्वः - १०
 
एवंविधैरिति । आनन्दस्य मूर्छाछां वृद्धिधिं पदे पदे अनुक्षणम् असीमं

निरवधि । अत्र हेतुः परात्मरूपीति ॥ १० ॥
 
२४४
 

 
इति केशिवधवर्णनं व्योमासुरवधवर्णनं च

एकसप्ततितमं दशकम् ।
 

 
अथ कंसवधमाह दशकचतुष्टयेन-
-
 
कंसोऽथ नारदगिरा व्रजवासिनं त्वा-

माकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् ।

आहूय का कर्मुकमखच्छलतो भवन्त-

मानेतुमेनमहिनोदहिनाथशायिन् ! ॥ १ ॥
 

 
कंस इति । विष्णुस्त्वद्वधार्थं देवक्यां जातो नन्दव्रजे वसतीति नारदस्य

गिरा दीर्हृदयश्चकितमतिः गान्दिनेयम् अक्रूरं कार्मुकमखच्छलतो धनुर्यागनिरी-

क्षणार्थमिति व्याजेन अहिनोत् प्रेषयामास ॥ १ ॥
 

 
अक्रूर एप भवदपिङ्घ्रिपरश्चिराय

त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या ।

तस्याज्ञयैव पुनरीक्षितुमुग्रद्यतस्त्वा-

मानन्दभारमतिभूरितरं भार ॥ २ ॥
 

 
अक्रूर इति । भवदङ्घ्रिपरः भवद्भक्तः क्षितिपालभीत्या कंसभयेन अहं

कृष्णदर्शनाक्षम इति मनो यस्य स त्वद्दर्शनाक्षममनाः ॥ २ ॥
 

 
सोऽयं रथेन सुकृती भवतो निवासं
 

गच्छन् मनोरथगणांस्त्वयि धार्यमाणान् ।

आस्वादयन् मुहुरपायभयेन दैवं
 

संप्रार्थयन् पथि न किञ्चिदपि व्यजानात् ॥ ३ ॥
 

 
स इति । त्वयि त्वद्विषये मनोरथग गाणान् दर्शनस्पर्शनादिरूपानं मनसा

धार्यमाणान् आस्वादयन् अपायभयेन स्वस्य कंसभृत्यतादिहेतुकेन भगवद्दर्शनाभा
 
-