This page has not been fully proofread.

म् - ७१]
 
व्योमासुरवधवर्णनम् ।
 
आलम्भमात्रेण पशोः सुराणां प्रसादके नूत्र इवाश्यमेवे ।
कृते त्वया हर्षवशात् सुरेन्द्रास्त्वां तुटुयुः केशवनामधेयन् ॥ ६ ॥
 
२४३
 
आलम्भेति । अश्वमेधयागे हि पशुमालभ्य तेन यजने कृत एव देवानां
प्रसादः स्यात् । इह त्वालम्भमात्रेण अश्वहिंसामात्रेण सुराणां प्रसादो जातः ।
अतो नूत्ने अपूर्वे अश्वमेधयागे अश्ववधे वा कृते ततः केशवनामधेयं त्वां
तुष्टुवुः ॥ ६ ॥
 
कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्धोकं प्रतिरुध्य वाचा ।
प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽनूः ॥ ७ ॥
 
कंसायेति । नायं कृष्णो नन्दसुतः, किन्तु देवक्या अष्टमसुत इति ते
शौरिसुतत्वमुक्त्वा ततस्तद्वधोत्कं वसुदेववधोयुक्तं कंसं वाचा प्रतिरुध्य कोशेक्षप-
णावसाने प्राप्तेन ॥ ७ ॥
 
कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलुनं त्वाम् ।
मयात्मजः प्राप दुरन्तमायो व्योमाभिधो व्योमचरोपरोधी ॥ ८ ॥
 
कदापीति । निलायनऋडिने तिरोधाननिरीक्षणत्पर्श नरूपे सश्रद्धम् ।
व्योमचरोपरोधी देवशत्रुः ॥ ८ ॥
 
स चोरपालायितवल्लवेषु चोरायितो गोपशिशुन् पशूंध ।
गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ॥ ९॥
 
स इति । केचिद् बल्लवाश्चोरायिताः । केचित् पालायिताः । मयपुत्रस्तु गो-
पवेषधारी चोरायितः पशून् गोपशिशूंश्च पर्वतगुहासु कृत्वा निक्षिप्य पिदधे ब-
बन्ध । त्वया परिमर्दितो निगृहीतः ॥ ९ ॥
 
एवंविषैश्चाद्भुतकेलिभेदैरानन्दमूर्छामतुलां व्रजस्य ।
पदे पदे नूतनयन्त्रसीमं परात्मरूपिन् ! पवनेश ! पायाः ॥ १० ॥