This page has not been fully proofread.

२४२
 
नारायणीये
 
यत्त्रेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टवन्धुः ।
त्वं सिन्धुजावाप्य इतीव मत्वा संप्राप्तवान् सिन्धुजवाजिरूपः ॥ १ ॥
यत्नेष्विति । यत्नेषु नावकेशी अवन्ध्यः स केशी त्वं सिन्धुजया लक्ष्म्या
अवाप्य इति सिन्धुजाबाज्यश्चेदहमपि सिन्धुजो भवामीति मत्वेव ॥ १ ॥
 
3
 
[स्कन्धः - १०
 
गन्धर्व मेप गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः :।
भवद्विलोकावधि गोपवाटी मद्ये पापः पुनरापतत् त्वाम् ॥ २ ॥
गन्धर्वतामिति । गन्धर्वताम् अश्वताम् गतोऽपि रूक्षैर्नादैः । गन्धर्वो
हि मृदुनादः ॥ २ ॥
 
तार्क्ष्यार्पितास्तत्र तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम् ।
भृगोः पदाघातकथां निशम्य स्वेनापि शक्यं तदितीव मोहात् ॥ ३ ॥
तार्क्ष्यति । एष तार्क्ष्यो दनुजः । भृगुर्हि विष्णुं वक्षसि पदाहन् । तत्कथां
निशम्य तत् पहननं स्वेनात्मनापि शक्यमिति मोहादिव ॥ ३ ॥
 
प्रवञ्चयन्नस्य खुराञ्चलं द्वाजमुं च चिक्षेपिथ दूरदूरम् ।
संमूर्धितेऽपि ततेनागा खादितुमाहुतस्त्वाम् ॥ ४ ॥
 
प्रवञ्चयनिति । खुगञ्चलं खुरप्रहारं प्रवञ्चयन् छलयन् द्राग् झटिति
पादयोर्गृहीत्वानुं दूर दूरं चिक्षेपिथ विसर्जिय । अतिमूर्छितेन प्रवृद्धेन। आद्रुतः
 
अभिपतितः ॥ 11
 
त्वं वाहदण्डे कृतधीच वाहादण्डं न्यधास्तस्य मुखे तदानीम् ।
तबृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् ॥ ५ ॥
 
त्वमिति । वाहदण्डे अस्ववधे। बाहादण्डं भुजदण्डम् । तद्वृद्धया
बाहादण्डवृद्धया । सप्तीभवन् अश्वीभ न्नपि भगवत्यैक्यं सायुज्यम् । वाहदण्डे
कृतधीरपि बाहादण्डमिति विरोधश्च द्योत्यते ॥ ५ ॥
 
१. 'त्वां' क. ख. पाठ:. २. 'त्वां' ख. पाठः, ३. 'बा' घ. पाठ:.