This page has not been fully proofread.

दशकम् - ७०]
 
वृषभासुरवधत्रर्णनम् ।
 
२४१
 
शाकर इति । शाकरो वृषभ: जगत्या भूम्या वृति स्थैर्य हर्त्तु शीलम-
स्येति तथा । पशूनां पङ्क्ति परिपुर्ण्य विद्राव्य छन्दसां निधिं वेदगर्भन्। एषो-
ऽरिष्टः शक्करीजगतीघृतिबृहतीपङ्किच्छन्दोमात्र पुक्तः । भवांग्तुच्छन्दोनिधिरिति
महान् विशेष इति च प्रतीयते ॥ ७ ॥
 
तुङ्गशृङ्गमुखमाश्वभियन्तं सगृहय्य रभसादभियं तम् ।
भद्ररूपमपि दैत्यमभद्रं मर्दयन्ननदयः सुरलोकम् ॥ ८ ॥
 
तुङ्गेति । तुङ्गे शृङ्गमुखे शृङ्गाग्रे यस्य तुङ्गशृङ्गं मुखं यस्येति वा ।
अभियन्तम् अभिगच्छन्तम् अभियं भयरहितं भद्ररूप वृषरूपम् अभद्रं दुष्टं
सङ्गृहय्य गृहीत्वा मर्दयन् निगृह्णन् । अमदयः प्रसादप्रामासिथ ॥ ८ ॥
 
चित्रमद्य भगवन्! वृषघातात् सुस्थिराजनि वृपस्थितिरुर्व्याम् ।
वर्धते च नृपचेतसि भूयान्मोद इत्यभिनुतोऽसि सुरस्त्वम् ॥ ९ ॥
 
चित्रमिति । वृषघाताद् अरिष्टवधाद् उर्व्यां वृषस्य धर्मस्य स्थितिः सु-
स्थिराजनि। वृष्ण इन्द्रस्य चेतसि, वृषस्य धर्मस्य चेतसि, धर्मबुद्धौं सज्जने वा ।
वृषघाताद् वृषस्य स्थितिः वृषचेतसि मोदश्चेति चित्रम् ॥ ९ ॥
 
औक्षकाणि! परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी ।
इत्थमात्तहसितैः सह गोषैर्गेहगस्त्वमव वातपुरेश ! ॥ १० ॥
 
औक्षकाणीति । हे औक्षकाणि! उक्षसमूहाः ! वृरभसमूहाः ! यूयं दूरं
परिधावत । इहायमुक्षविभेदी वृषहन्ता अरिष्टहन्ता वा । इत्थमात्तहसितैः व्याढ-
तहास्यवचनैः ॥ १० ॥
 
इति सुदर्शनाख्यविद्याधरस्य शापमोक्षवर्णनं शङ्खचूड-
वधवर्णनं वृषभासुरवधवर्णनं च
 
सप्ततितमं दशकम् ।
 
१. 'तिः । बृ' क. ख. पाठ:.
 
२. 'सि । वृषघा' क. ख. पाठः