This page has been fully proofread once and needs a second look.

दशकम् - ७०]
 
वृषभासुरवधत्रर्णनम् ।
 
२४१
 
शाक्वर इति । शाक्वरो वृषभ: जगत्या भूम्या वृतिधृतिं स्थैर्यं हर्त्तुतुं शीलम-

स्येति तथा । पशूनां पङ्क्तितिं परिपुघूर्ण्य विद्राव्य छन्दसां निधिं वेदगर्भन्। एषो-

ऽरिष्टः शक्रीजगतीघृधृतिबृहतीपङ्किच्छन्दोमात्र पुयुक्तः । भवांग्<flag>स्</flag>तुच्छन्दोनिधिरिति

महान् विशेष इति च प्रतीयते ॥ ७ ॥
 

 
तुङ्गशृङ्गमुखमाश्वभियन्तं सङ्गृहय्य रभसादभियं तम् ।

भद्ररूपमपि दैत्यमभद्रं मर्दयन्नदयः सुरलोकम् ॥ ८ ॥
 

 
तुङ्गेति । तुङ्गे शृङ्गमुखे शृङ्गाग्रे यस्य, तुङ्गशृङ्गं मुखं यस्येति वा ।

अभियन्तम् अभिगच्छन्तम् अभियं भयरहितं भद्ररूपं वृषरूपम् अभद्रं दुष्टं

सङ्गृहय्य गृहीत्वा मर्दयन् निगृह्णन् । अमदयः प्रसादप्रायामासिथ ॥ ८ ॥
 

 
चित्रमद्य भगवन्! वृषघातात् सुस्थिराजनि वृस्थितिरुर्व्याम् ।

वर्धते च नृपवृषचेतसि भूयान्मोद इत्यभिनुतोऽसि सुरैस्त्वम् ॥ ९ ॥
 

 
चित्रमिति । वृषघाताद् अरिष्टवधाद् उर्व्यां वृषस्य धर्मस्य स्थितिः[^१] सु-

स्थिराजनि। वृष्ण इन्द्रस्य चेतसि[^२], वृषस्य धर्मस्य चेतसि, धर्मबुद्धौंधौ सज्जने वा ।

वृषघाताद् वृषस्य स्थितिः वृषचेतसि मोदश्चेति चित्रम् ॥ ९ ॥
 

 
औक्षकाणि! परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी ।

इत्थमात्तहसितैः सह गोषैपैर्गेहगस्त्वमव वातपुरेश ! ॥ १० ॥
 

 
औक्षकाणीति । हे औक्षकाणि! उक्षसमूहाः ! वृभसमूहाः ! यूयं दूरं

परिधावत । इहायमुक्षविभेदी वृषहन्ता अरिष्टहन्ता वा । इत्थमात्तहसितैः व्याहृ-

तहास्यवचनैः ॥ १० ॥
 

 
इति सुदर्शनाख्यविद्याधरस्य शापमोक्षवर्णनं शङ्खचूड-

वधवर्णनं वृषभासुरवधवर्णनं च
 

 
सप्ततितमं दशकम् ।
 

 
[^
]. 'तिः । <flag>बृ</flag>' क. ख. पाठ:.
 
ठः
[^
]. 'सि । वृषघा' क. ख. पाठः