This page has not been fully proofread.

२४०
 
नारायणीये
 
कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनै-
र्जहार धनदानुगः स किल शङ्खचूडोऽवलाः ।
अतिद्रुतमनु द्रुतस्तमथ मुक्तनारीजनं
 
रुरोजिथ शिरोमणिं हलभृते च तस्याददाः ॥ ४ ॥
 
[स्कन्धः - १०
 
कदापीति । सीरिणा बलभद्रेण सह विहरति क्रीडति सति धनदानुगो
वैश्रवणभृत्यः अबलाः गोपीः जहार । अतिद्रुतं शीघ्रम् अनुद्रुतः अनुगतः भयान्मु-
क्तो नारीजनो येन तं शङ्खचूडं रुरोजिथ निगृहीतवान् तस्य शिरोमणिं हल-
भृतेऽप्रजायाददाश्च ॥ ४ ॥
 
दिनेषु च मुहृज्जनैः सह वनेषु लीलापरं
मनोभवमनोहरं रसितवेणुनादामृतम् ।
भवन्तममरीदृशाममृतपारणादायिनं
 
विचिन्त्य किमु नालपन विरहतापिता गोपिकाः ॥ ५ ॥
 
दिनेविति । एवं दिनेषु प्रतिदिनं च सुहृज्जनैः गोपबालकैः सह । मनो-
भवादपि मनोहरम् । रसितम् आस्वादितं वेणुनाद एवामृतं येन । अमरीदृशां
स्वर्गस्त्रीनयनानाम् अमृतपारणादायिनं निजरूपामृतपानमापादयन्तम् । विरहेण
क्षणं जातेन तापिताः सन्तप्तहृदया किनु नालपन्, तत्तदवस्थां विचिन्त्य
विलेपुरित्यर्थः ॥ ५ ॥
 
भोजराजभृतकस्त्वथ कश्चित् कष्टदुष्टपथदृष्टिरिष्टः ।
निष्ठुराकृतिरपष्टुनिनादस्तिष्ठते स्म भवते वृषरूपी ॥ ६ ॥
 
भोजति । भोजराजस्य कंसस्य भृतकः भृत्यः । कष्टा हिंसाबहुला दुष्ट-
पथे परोपद्रवे दृष्टिरन्वेषणं यस्य । निष्ठुरा क्रूरा आकृतिर्यस्य । वृषरूपी अपष्टुनि-
नादः क्रूरस्वनः भवते तिष्ठते स्म भवदर्शनपथे स्थितवान् ॥ ६ ॥
 
शाकरोऽथ जगतीभृतिहारी मूर्तिमेष बृहतीं प्रदधानः ।
पक्तिमाशु परिघूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तम् ॥ ७ ॥