This page has been fully proofread once and needs a second look.

२४०
 
नारायणीये
 
कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनै-

र्जहार धनदानुगः स किल शङ्खचूडोऽलाः ।

अतिद्रुतमनु द्रुतस्तमथ मुक्तनारीजनं
 

रुरोजिथ शिरोमणिं हलभृते च तस्याददाः ॥ ४ ॥
 
[स्कन्धः - १०
 

 
कदापीति । सीरिणा बलभद्रेण सह विहरति क्रीडति सति धनदानुगो

वैश्रवणभृत्यः अबलाः गोपीः जहार । अतिद्रुतं शीघ्रम् अनुद्रुतः अनुगतः भयान्मु-

क्तो नारीजनो येन तं शङ्खचूडं रुरोजिथ निगृहीतवान् तस्य शिरोमणिं हल-

भृतेऽप्रजायाददाश्च ॥ ४ ॥
 

 
दिनेषु च मुसुहृज्जनैः सह वनेषु लीलापरं

मनोभवमनोहरं रसितवेणुनादामृतम् ।

भवन्तममरीदृशाममृतपारणादायिनं
 

विचिन्त्य किमु नालपन् विरहतापिता गोपिकाः ॥ ५ ॥
 

 
दिनेष्विति । एवं दिनेषु प्रतिदिनं च सुहृज्जनैः गोपबालकैः सह । मनो-

भवादपि मनोहरम् । रसितम् आस्वादितं वेणुनाद एवामृतं येन । अमरीदृशां

स्वर्गस्त्रीनयनानाम् अमृतपारणादायिनं निजरूपामृतपानमापादयन्तम् । विरहेण

क्षणं जातेन तापिताः सन्तप्तहृदयायाः किनुमु नालपन्, तत्तदवस्थां विचिन्त्य

विलेपुरित्यर्थः ॥ ५ ॥
 

 
भोजराजभृतकस्त्वथ कश्चित् कष्टदुष्टपथदृष्टिरिष्टः ।

निष्ठुराकृतिरपष्टुठुनिनादस्तिष्ठते स्म भवते वृषरूपी ॥ ६ ॥
 

 
भोजेति । भोजराजस्य कंसस्य भृतकः भृत्यः । कष्टा हिंसाबहुला दुष्ट-

पथे परोपद्रवे दृष्टिरन्वेषणं यस्य । निष्ठुरा क्रूरा आकृतिर्यस्य । वृषरूपी अपष्टुठुनि-

नादः क्रूरस्वनः भवते तिष्ठते स्म भवद्दर्शनपथे स्थितवान् ॥ ६ ॥
 

 
शाक्वरोऽथ जगतीभृधृतिहारी मूर्तिमेष बृहतीं प्रदधानः ।

पङ्
क्तिमाशु परिघूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तम् ॥ ७ ॥