This page has not been fully proofread.

दशकम् -- ७०] सुदर्शनाख्यविद्याधरस्य शापमोक्षवर्णनम् ।
 
इति त्वयि रसाकुलं रमितवल्लभे वल्लवा:
कदापि पुन॑रम्बिकाकमितुरम्विकाकानने ।
 
समेत्य भवता समं निशि निषेव्य दिव्योत्सवं
सुखं सुषुपुरग्रसीद् वजपमुग्रनागस्तदा ॥ १ ॥
 
इतीति । इति उक्तप्रकारेण रसेन कौतुकेन आकुलं यथा भवति तथा
रमिता बल्लभा येन तस्मिंस्त्वयि सति पुनः कदाचिद् बलवा गोपाः अम्बिकाक
मितुः अम्बिकावनाख्ये शिवक्षेत्रे भवता समं समेत्य निशि दिव्योत्सवं निषेव्य
सुखं सुपुपुः । तदा उग्रः क्रूरो नागोऽजगरो त्रजपं नन्दम् अग्रसीत् ॥ १ ॥
 
समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन् बला-
दमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः ।
तदा खलु पदा भवान् समुपगम्य पस्पर्श तं
बभौ स च निजां तनुं समुपसाद्य वैद्याधरीम् ॥ २ ॥
 
२३९
 
समुन्मुखमिति । समुन्मुखं ग्रसनव्यग्रम् । उल्मुकैः अलातैः । तैः गोपैः
भवत्पदे न्यपति । वैद्याधरीं विद्याधरसम्बन्धिनीम् । समुपसाद्य प्राप्य बभौ
शुशुभे ॥ २ ॥
 
सुदर्शनधर ! प्रभो ! ननु सुदर्शनाख्योऽस्म्यहं
 
मुनीन् क्वचिदपाहसं त इह मां व्यधुर्वाहसम् ।
भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौ
 
स्तुवन् निजपदं ययौ ब्रजपदं च गोपा मुदा ॥ ३ ॥
 
सुदर्शनेति । क्वचित् कदाचिद् मुनीन् अङ्गिरसः अपाहसम् अपहसित-
वानस्मि । ते मुनयः इह अस्मिन् प्रदेशे मां वाहसम् अजगरं व्यधुः यत आत्मनः
सुरूपतया दृप्तोऽस्मान् विरूपतयापहसितवान्, अतस्त्वमजगरो भवितेति शप्त-
वन्तः । इदानीममलतां गतः शापान्मुक्त इत्युक्त्वा स्तुवन् निजपदं विद्याधर-
लोकम् ॥ ३ ॥
 
१. 'रमम्बि' क. ग. घ. ङ. पाठ:.
* परस्मैपदमात्मनेपदानित्यत्वात् ।