This page has not been fully proofread.

२३८
 
नारायणीये
 
[स्कन्धः - १०
 
केलिसम्मृदिततया निर्मलानि ललितान्यज्ञानि यासां नवधर्मलेशैः सुभग आत्मा
शरीरं यासां, मन्मथेनासहनं सुरतलीलाकालक्षेपासहिष्णु चेतो यासां, तासां
सुकृतेन चोदितः प्रेरितः यावत्यो गोप्यस्तावत्य आकलिता धृता मूर्तयो
येन ॥ ९ ॥
 
केलिभेदपरिलोलिताभिरतिलालिताभिरवलालिभिः
 
स्वैरगीश! ननु सुरजापयसि चारु नाम विवृतिं व्यधाः ।
काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे
मूनसौरभमये विलेसिथ विलासिनी शतविमोहनम् ॥ १० ॥
 
केलीति। केलिभेदैः आलिङ्गनचुम्चनप्र हैरणदन्तत्रणनखक्षतचूषणसीत्कार-
हिक्काश्वासादिप्रयोगरूपैः परिलोलिताभिः आकुली क्रियमाणाभिः । सुरजापयसि
यमुनाजले विहृतिं जलक्रीडां काननेऽपि च विहृतिं व्यधाः कृतवान् । बिसारिणा
बीजनशलेन शीतलेन किशोरमारुतेन मन्दवायुना मनोहरे सूनानां पुष्पाणां
सौरभमये । विलासिनीशतविमोहनं यथा तथा विलेसिथ अशोभथाः ॥ १० ॥
 
कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे ! भवान्
पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् ।
ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन्
भक्तलोकगमनीयरूप! कमनीय! कृष्ण! परिवाहि माम् ॥ ११ ॥
 
कामिनीरिति । हे कामनीयकनिधे! सौभाग्यार्णव ! भवान् यामिनीषु कामि-
नीः योगिभिर्गम्यं प्राप्यं पूर्णसन्मदरसार्णवं ब्रह्मानन्दम् अनुभावयन् आस्वादयन्
ब्रह्मादीनपि पशुपाङ्गनासु बहुमानयन् बहुमानयुक्तान् कुर्वन् भक्तलोकैर्गमनीयं
माप्यं रूपं यस्य । कमनीय ! कान्त ! हे कृष्ण! परिपाहि ॥ ११ ॥
 
इति रासक्रीडायां कमनीयरूपधारिणा भगवता सह गोपीनां नृत्तगीतादिविलासवर्णनं
एकोनसप्ततितमं दशकं सैकम् ।
 
१. 'हणनद' क. पाठः.