This page has been fully proofread once and needs a second look.

२३८
 
नारायणीये
 
[स्कन्धः - १०
 
केलिसम्मृदिततया निर्मलानि ललितान्यज्ञाङ्गानि यासां नवधर्मलेशैः सुभग आत्मा

शरीरं यासां, मन्मथेनासहनं सुरतलीलाकालक्षेपासहिष्णु चेतो यासां, तासां

सुकृतेन चोदितः प्रेरितः यावत्यो गोप्यस्तावत्य आकलिता धृता मूर्तयो

येन ॥ ९ ॥
 

 
केलिभेदपरिलोलिताभिरतिलालिताभिरवलालिभिः
 

स्वैरगीमीश! ननु सुसूरजापयसि चारु नाम विवृहृतिं व्यधाः ।

काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे
मू

सू
नसौरभमये विलेसिथ विलासिनी शतविमोहनम् ॥ १० ॥
 

 
केलीति। केलिभेदैः आलिङ्गनचुम्नप्र हैह[^१]रणदन्तत्व्रणनखक्षतचूषणसीत्कार-

हिक्काश्वासादिप्रयोगरूपैः परिलोलिताभिः आकुली क्रियमाणाभिः । सुरजापयसि

यमुनाजले विहृतिं जलक्रीडां काननेऽपि च विहृतिं व्यधाः कृतवान् । बिविसारिणा
बी

वी
जनशीलेन शीतलेन किशोरमारुतेन मन्दवायुना मनोहरे सूनानां पुष्पाणां

सौरभमये । विलासिनीशतविमोहनं यथा तथा विलेसिथ अशोभथाः ॥ १० ॥
 

 
कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे ! भवान्

पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् ।

ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन्

भक्तलोकगमनीयरूप! कमनीय! कृष्ण! परिवाहि माम् ॥ ११ ॥
 

 
कामिनीरिति । हे कामनीयकनिधे! सौभाग्यार्णव ! भवान् यामिनीषु कामि-

नीः योगिभिर्गम्यं प्राप्यं पूर्णसन्मदरसार्णवं ब्रह्मानन्दम् अनुभावयन् आस्वादयन्

ब्रह्मादीनपि पशुपाङ्गनासु बहुमानयन् बहुमानयुक्तान् कुर्वन् भक्तलोकैर्गमनीयं
मा

प्रा
प्यं रूपं यस्य । कमनीय ! कान्त ! हे कृष्ण! परिपाहि ॥ ११ ॥
 

 
इति रासक्रीडायां कमनीयरूपधारिणा भगवता सह गोपीनां नृत्तगीतादिविलासवर्णनं

 
एकोनसप्ततितमं दशकं सैकम् ।
 

 
[^
]. 'हणनद' क. पाठः.